संस्कृतभारती कोङ्कणप्रान्तः
प्रबोधनवर्गः २०२५
कोङ्कणप्रान्तस्य कल्याणजनपदे डोम्बिवलीनगरे मे मासस्य ४ दिनाङ्कतः १० दिनाङ्कपर्यन्तं प्रबोधनवर्गः सम्पन्नः। आहत्य ४९ शिक्षार्थिनः भागं स्वीकृतवन्तः। प्रान्तस्य भिन्नभिन्नजनपदात् जनाः आगतवन्तः।
बोरिवली जनपदस्य शिक्षणप्रमुखा मान्या सौ. शुभाङ्गी जोशी महोदया वर्गस्य वर्गाधिकारिरुपेण दायित्वं स्वीकृतवती। वर्गस्य कार्यवाहकः आसीत् ठाणे विभागस्य संयोजकः मान्यः श्री. किशोर उधोजी महोदयः। व्यवस्थाप्रमुखरुपेण दायित्वं निरूढवान् कल्याणजनपदस्य सह-संयोजकः मान्यः श्री. महेश जोशी महोदयः। शिक्षणप्रमुखा आसीत् प्रान्तस्य गीताकेन्द्रप्रमुखा मान्या सौ. नेहा दाण्डेकर महोदया। बौद्धिक प्रमुखा आसीत् मान्या सौ. स्नेहल पराडकर महोदया।नियन्त्रिकारुपेण कार्यं कृतवती ठाणेनगरस्य संयोजिका मान्या सौ. दीप्ति-रुक्के-पुजारी भगिनी।
उद्घाटनसत्रे लोकमान्यगुरुकुलविद्यालयसंस्थायाः प्रतिनिधिः मान्यः श्री. आशीर्वाद-बोन्द्रे-महोदयः उपस्थितः आसीत्। दीपप्रज्वलनेन उद्घाटनं कृतम्। प्रान्तस्य प्रचारप्रमुखेन मान्यः श्री. महेश परळकर महोदयेन अतिथिमहोदयस्य स्वागतं कृतम्।
७ दिनानि यावत् छात्रेभ्यः विभन्न सत्राणाम् आयोजनं कृतम्। व्याकरणसत्राणि बौद्धिकसत्राणि क्रीडासत्राणि अनौपचारिकसत्राणि च आसन्।
वर्गस्य समारोपे मुख्यवक्तृरूपेण उपस्थितः आसीत् अखिलभारतीयगीताशिक्षणकेन्द्रप्रमुखः मान्यः श्री. शिरीषजी भेडसगांवकर महोदयः। मुख्यतिथिः आसीत् मान्यः श्री. प्रदीप गोसावी महोदयः।
वर्गे आहत्य १० शिक्षकाः १८ प्रबन्धकाः आसन्।
प्रान्तपक्षतः प्रान्तमन्त्री मान्यः श्री. नीरज दाण्डेकर महोदयः पूर्णसमयम् उपस्थितः आसीत्। अन्ये अभ्यागतरूपेण आगताः आसन् क्षेत्राध्यक्षः मान्यः श्री. चन्द्रशेखर वझे महोदयः प्रान्त सम्पर्कप्रमुखः मान्यः श्री. हरेश आमडेकर महोदयः च। प्रान्तप्रचारप्रमुखः मान्यः श्री. महेश परळकर महोदयः वर्गस्य पालकरूपेण दायित्वं निरूढवान्।.
- Post By : Samskrita Barati Konkan
- |
- 12-05-2025
- |


























.jpeg)











.jpeg)























