संस्कृतभारत्याः कोङ्कणप्रान्तस्य प्रशिक्षणवर्गः मे-मासस्य १७ दिनाङ्कतः २८ पर्यन्तं महर्षिकर्वेस्त्रीशिक्षणसंस्था शिरगाव रत्नागिरी इत्यत्र आयोजितः आसीत्। तत्र वर्गस्य प्रकटोद्घाटनकार्यक्रमः मे-मासस्य १८ दिनाङ्के प्रातःकाले १० वादनतः ११ वादनपर्यन्तकाले सुसंवृत्तः। कार्यक्रमे श्रीमती जयश्री जोशी महाभागा तथा च श्रीमान् जयन्त जोशी महोदयः अतिथित्वेन समुपस्थितावास्ताम्। उभावपि स्थानिकौ तथा सामाजिककार्यकर्तारौ। महोदयः उद्योजकः महोदया च शिक्षणक्षेत्रे कृतभूरिपरिश्रमा। एतौ दम्पती संस्कृतभारतीकोङ्कणप्रान्तस्य उपाध्यक्षा डॉ. कल्पना आठल्ये महोदया तथा च वर्गाधिकारी श्रीमान् शांतीलाल पटेल महोदय: मञ्चम् अलङ्कृतवन्तः। तत्र वर्गस्य तथा उद्घाटन कार्यक्रमस्य प्रास्ताविकं संस्कृतभारतीकोङ्कणप्रान्तमन्त्रिणा श्रीमता नीरजदाण्डेकरमहोदयेन अकारि। अतिथिभ्यां संस्कृतस्य माहात्म्यं सर्वैरवगन्तव्यम् तदर्थं च एतादृशवर्गाणाम् आयोजनं भूरिशः कर्तव्यमिति आशयः प्रकाशितः। रत्नागिरीजनपदसंयोजिकया अक्षयाभागवतमहोदयया ऋणनिर्देशपूर्वकं कार्यक्रमः सम्पन्नतां नीतः।.
- Post By : Samskrita Barati Konkan
- |
- 18-05-2023
- |


























.jpeg)











.jpeg)























