Top
संस्कृतभारती - कोङ्कणम्
Latest Media & News
रत्नागिरीनगरे शिबिरद्वयस्य समापनकार्यक्रमः सम्पन्नः ।

रत्नागिरीनगरे शिबिरद्वयस्य समापनकार्यक्रमः सम्पन्नः ।
30/06/2025
आषाढशुद्धपञ्चमी ।

दक्षिणरत्नागिरिजनपदेन आयोजितस्य शिबिरद्वयस्य सामूहिकसमापनसमारम्भः राधाकृष्णसङ्कुलम् साळवी स्टॉप रत्नागिरिः इत्यत्र ३० जून दिनाङ्के चारुतया सम्पन्नः।

अस्मिन् कार्यक्रमे मुख्यातिथिरूपेण सामाजिककार्यकर्त्री मान्या शिल्पासुर्वेमहोदया तथा संस्कृतभारतीपक्षतः मुख्यवक्त्रीरूपेण प्रान्ताध्यक्षा डॉ. कल्पनाआठल्येमहोदया उपस्थाय मञ्चम् अलङ्कृतवत्यौ।

जनपद‌-अध्यक्षः मान्यः डॉ. दिनकरमराठेमहोदयः अपि कार्यक्रमे उपस्थितः आसीत्।

भारतमातुः पूजनेन कार्यक्रमस्य आरम्भः अभवत्। शिबिरशिक्षकः आशिष-आठवलेमहोदयः प्रास्ताविकं कृतवान्।

शिबिरछात्राः सोत्साहं प्रतिभाप्रदर्शनं कृतवन्तः। सर्वे अपि उपस्थिताः भारतमातरं प्रणम्य समाजनिधिसमर्पणं कृतवन्तः। आहत्य ₹५३००/- समर्पितानि।

पुस्तकविक्रयणम् - २३१०/- रूप्यकाणाम् अभवत् ।

शिबिरशिक्षिका सौ. नेत्रा मोडक कृतज्ञतार्पणं कृतवती।

एकात्मतामन्त्रेण कार्यक्रमः समाप्तिं गतः।.


  • Post By : Samskrita Barati Konkan-Akshaya Bhagawat
  • |
  • 06-07-2025
  • |