Top
संस्कृतभारती - कोङ्कणम्
Latest Media & News
दक्षिणभागस्य प्रान्तीय अभ्यासवर्गः (रत्नागिरीतः गोवापर्यन्तं ५ जनपदाः)

संस्कृतभारत्याः कोङ्कणप्रान्तस्य जनपदसंयोजकानां अभ्यासवर्गः रविवासरे १० सप्टेम्बर २०२३ दिनाङ्के हेडगेवार विद्यालयः अस्नोडा इत्यत्र आयोजितः। अभ्यासवर्गे प्रधानत्वेन उपस्थितः आसीत् क्षेत्र संघटनमन्त्री श्रीमन् चिन्मय आमशेकर महोदयः। नगरसंयोजकाः जनपदसंयोजकाः प्रान्तकार्यकर्तारः च संमिल्य आहत्य २० जनाः उपस्थिताः आसन्। उद्घाटनसत्रे प्रास्ताविकं प्रस्तौत् विभागसंयोजक: श्रीमान् प्रसाद उमर्ये महोदयः।
आहत्य सप्तसत्रेषु संघटनंगणनिर्माणं कार्यकतृनिर्माणं दायित्वबोधः अनुशासनं गोष्ठीनां स्वरूपाणि सञ्चालनपद्धतिःजालपुट: च इत्यादीन् बिन्दून् आधारीकृत्य प्रान्तकार्यकर्तृभिः मार्गदर्शनं कृतम्। प्रसाद महोदयेन सह सत्राणां सञ्चलनं मान्यः चिन्मय महोदयः कोडकणप्रान्तस्य विद्वत्परिषत्प्रमुखः श्रीमान् महाबल भट महोदयः प्रशिक्षणप्रमुखः श्रीमान् आशीष आठवले महोदयः तथा सम्पर्कप्रमुखः श्रीमान् हरेश आमडेकर महोदयः च मिलित्वा कृतवन्तः।
वर्गस्य समापनसत्रे मान्य: चिन्मय आमशेकर महोदय: मार्गदर्शनम् अकरोत्। आहत्य अभ्यासवर्गः उत्तमरीत्या सम्पन्नः ।.


  • Post By : Samskrita Barati Konkan
  • |
  • 13-09-2023
  • |