Top
संस्कृतभारती - कोङ्कणम्
Latest Media & News
BORIVALI JANPAD - NAVA VARSHA SWAAGAT YATRA 22-Mar-23

कोरोनाकालानन्तरं एषः प्रथमः गुडीपाडवा-उत्सवः आयोजितः। २२ मार्च दिनाङ्के शोभायात्राया: कृते ८०० ~ १००० जना: भागं वुढितवन्तः।

शोभायात्राया: प्ररम्भं जॉगर्स पार्क चिकूवाडीतः एव आसीत्। माननीयः सुनीलराणेमहोदयः आमदारः उपस्थितः आसीत्।

संस्कृतभारती प्रथमवारं भागं वुढितवती। संस्कृतभारत्या: पृथकगणस्य आयोजनम् आसीत्। १५ संस्कृतछात्रा: भित्तिपत्रकं ग्रहित्वा शोभायात्रामध्ये संस्कृतस्य प्रचार-प्रसारः कृतवन्तः। यात्राया: पूर्वं एका लघ्वी पथनाटिकाया: प्रस्तुति: अपि आसीत्। शरयुठाकुरदेसाई जीग्नाराजगुरु दीपाकुल्कर्णी धारिणीवोरा च तन्मध्ये आसन्। बहवः श्रोतारः तत्र उपस्थिता: आसन् तथा सोत्साहेन पथनाटिकां दृष्टवन्तः श्रुतवन्तः च।.


  • Post By : Samskrita Barati Konkan
  • |
  • 27-03-2023
  • |