Top
संस्कृतभारती - कोङ्कणम्
Latest Media & News
अष्टावधानम् - भारतीय-प्रौद्योगिकी-संस्थानम् मुम्बई ?

अष्टावधानम् - भारतीय-प्रौद्योगिकी-संस्थानम् मुम्बई ?

प्रौद्योगिकी-संस्थाने अप्रैल्-मासस्य तृतीये दिनाङ्के अष्टावधानकार्यक्रमः सम्पन्नः। चिर-प्रतीक्षितः अयं कार्यक्रमः संस्कृताध्ययनकेन्द्रम् भा.प्रौ.सं.मुम्बई तथा च संस्कृतभारती-कोङ्कणप्रान्तः इत्येताभ्याम् आयोजितः आसीत्। अष्टावधानकला प्राचीनभारतीया कला वर्तते। एषा काव्यसृजनस्य नियतावधानयुता मनोरञ्जनात्मिका च कला वर्तते। अस्यां कलायां कश्चन अवधानी निर्धारिते सीमिते काले काव्यसम्बद्धानां समस्यानां समाधानं करोति। एष: कार्यक्रम: संस्कृतानुरागिणाम् अतीव मनोरञ्जनपूर्ण: भवति। भारतीय-प्रौद्योगिकी-संस्थाने ईदृश: कार्यक्रम: इदम्प्रथमतया समायोजितः। कार्यक्रमे अवधानी रूपेण समागतः बेङ्गलुरूनगरस्थः संस्कृतविद्वान् डॉ. एन. उमामहेश्वरः सर्वासाम् अपि समस्यानां मनोरञ्जकतया समाधानं कृतवान्। कार्यक्रमस्य अङ्गभूताः अष्टौ प्रच्छकाः भारतीय-प्रौद्योगिकी-संस्थाने विद्यावारिधिम् अधीयानाः छात्राः आसन्। कार्यक्रमे मुख्यातिथिरूपेण प्रो. वरदराजः बापटः विराजमानः आसीत्। संस्कृतभारती-कोङ्कणप्रान्तपक्षतः श्री नीरजदाण्डेकरः श्रीहरेशआमडेकरः श्रीमहेशपरळकरः च आसन्। कार्यक्रमस्य आद्यन्तं मनोरञ्जकं प्रवाहं दृष्ट्वा समागताः सर्वेऽपि संस्कृतानुरागिणः अत्यन्तं प्रफुल्लिताः अभवन्। प्रो. मल्हारकुलकर्णीमहाभागः कार्यक्रमस्य अन्ते विदुषः डॉ. उमामहेश्वरमहोदयस्य सम्मानं कृत्वा उपस्थितानां सर्वेषां काव्यमयं मनोगतं प्रस्तुतवान्। आहत्य एषः अष्टावधान-कार्यक्रमः घण्टात्रयं यावत् प्रावर्तत। कार्यक्रमे प्रेक्षकरूपेण चिन्मयमिशन्-सान्दीपनिसाधनायलयस्य उपाचार्यः श्रीमान् मुकुन्दचैतन्यमहाभागः उपचत्वारिंशाः साधकाः भारतीय-प्रौद्योगिकीसंस्थानस्य छात्राः प्राध्यापकाः समाजपक्षतः केचन संस्कृतानुरागिणः संस्कृतभारत्याः कार्यकर्तारः च आमन्त्रिताः उपस्थिताः चासन्।.


  • Post By : Samskrita Barati Konkan
  • |
  • 05-04-2025
  • |