Top
संस्कृतभारती - कोङ्कणम्
Latest Media & News
संस्कृतभारत्याः पश्चिमक्षेत्रस्य (गुर्जर सौराष्ट्र कोङ्कणम् ) प्रशिक्षणवर्गः

सर्वेषां नमस्कारः। ?

संस्कृतभारत्याः पश्चिमक्षेत्रस्य (गुर्जर सौराष्ट्र कोङ्कणम् ) प्रशिक्षणवर्गः कोङ्कणप्रान्तस्य नवी मुंबई-जनपदे एस् एस् हायस्कूल इत्यत्र महता वैभवेन सम्पन्नः। वर्गस्य उद्घाटने मा. डॉ. दीपा दीक्षित अतिथिरूपेण उपस्थिता। प. क्षेत्राध्यक्षः मा. चन्द्रशेखर वझेमहोदयः शुभाशयान् दत्तवान्। १६ दिनाङ्के समारोपकार्यक्रमस्य मुख्यातिथिः मान्यः सुजयः मनोहरः कुलकर्णीवर्यः आसीत्। महोदयः सर्वान् दृष्ट्वा उत्साहं प्राप्तवान् मयापि संस्कृतं पठनीयमिति स्वाभिप्रायं प्रकटितवान्। कार्यक्रमे पाथेयभाषणं कृतवान् अखिलभारतीयः सङ्घटनप्रमुखः श्री. जयप्रकाशमहोदयः। महोदयः वर्गस्वरूपं लक्ष्यं च विस्तरेण सर्वान् उक्तवान्। कार्यक्रमे वर्गाधिकारिरूपेण पश्चिमक्षेत्रस्य मन्त्री श्री जितेन्द्र ब्रह्मभट्ट-महोदयः अपि मञ्चे आसीत्। पश्चिमक्षेत्रसङ्घटनमन्त्री श्री. विठ्ठल भटमहोदयः तथा पश्चिमक्षेत्रस्य मन्त्री श्री. जितेन्द्र ब्रह्मभट्ट-महोदयः वर्गे पूर्णसमयम् उपस्थितौ आस्ताम्। आहत्य २१ प्रशिक्षणार्थिनः भागम् ऊढवन्तः। तत्र १४ महिलाः ७ पुरुषाः च आसन्। कोङ्कणप्रान्ततः ११ जनपदेभ्यः १६ गुर्जरतः ५ प्रशिक्षणार्थिनः आसन्। वर्गशिबिरं मेमासस्य ६ दिनाङ्कतः १५ दिनाङ्कपर्यन्तं वर्गस्थानस्य प्रथमतले अभवत्। तत्र उपत्रिंशत् शिबिरार्थिनः उपस्थिताः आसन्। वर्गशिबिरस्य समारोपकार्यक्रमे m-indicator इति तन्त्रांशस्य सञ्चालकः मा. सचिन टेके तथा समाजशास्त्र प्राध्यापिका मा. तेजस्विनी अधिकारी उपस्थितौ आस्ताम्।

वर्गे 3 शिक्षकाः पूर्णसमयं उपस्थिताः आसन्। शिक्षकद्वयं अर्धसमयं उपस्थितवन्तौ। वर्गे व्याकरणसत्राणि विमर्शसत्राणि बौद्धिकसत्राणि च अभवन्। अखिलभारतीयस्तरतः मा. चिन्मयमहोदयः मा. शिरीषरावः तथा मा. जयप्रकाशमहोदयः एते त्रयः अधिकारिणः प्रवासं कृतवन्तः।

वर्गे सौ. अक्षया भागवत नियन्त्रिकारूपेण कार्यं कृतवती। श्री. निलेश पाटकरमहोदयः व्यवस्थाप्रमुखरूपेण कार्यं निर्व्यूढवान्। कु. चन्द्रमोहनः शिक्षणप्रमुखस्य दायित्वम् ऊढवान्।.


  • Post By : Samskrita Barati Konkan
  • |
  • 18-05-2026
  • |