Top
संस्कृतभारती - कोङ्कणम्
Latest Media & News
संस्कृतम्

*संस्कृतभारती अम्बरनाथजनपदः।*
*संस्कृतदिनाचरणम्।*
सप्टेम्बरमासस्य द्वितीये दिनाङ्के बदलापुरनगरे विश्व-संस्कृतदिननिमित्तम् संस्कृतदिनाचरणम् इति कार्यक्रमः आयोजितः। बालकेन्द्रे देववाणी साप्ताहिकमेलनम् इत्यादिषु उपक्रमेषु पठितॄणां प्रतिभाप्रदर्शनम् इति कार्यक्रमस्य मुख्यः विषयः आसीत्। कार्यक्रमे मुख्यवक्तृरूपेण उपस्थितः आसीत् मान्यः प्रान्तसम्पर्कप्रमुखः हरेशः सुधाकरः आमडेकरमहोदयः।महोदयेन भाषणे संस्कृतस्य आधुनिकयुगे तथा व्यवहारे कथम् उपयोगः क्रियते एतस्य विषये उद्बोधनं कृतं तथा चर्चा कृता। कार्यक्रमे बदलापुरनगरस्य अध्यक्षा मा. अनिता भावे महोदया अम्बरनाथजनपदस्य संयोजिका ख्याती देशपाण्डे महोदया अन्ये कार्यकर्तारः बदलापुरवासिनः शिक्षकाः बालकाः इति मिलित्वा आहत्य ६० जनाः उपस्थिताः आसन्। कार्यक्रमस्य सञ्चालनं रोहिणी जोशी भगिन्या कृतम्।.


  • Post By : Samskrita Barati Konkan-Ambarnath
  • |
  • 04-09-2023
  • |