अद्य १५ जून दिनाङ्के संस्कृतभारती कोङ्कण प्रान्तस्य दायित्ववन्त-कार्यकर्तारः ठाणे लोकसभा निर्वाचनक्षेत्रस्य नवनिर्वाचितस्य सांसदस्य श्री. नरेश म्हस्के महोदयस्य मिलित्वा तदर्थं अभिनन्दनं कृतवन्तः। अस्मिन् अवसरे संस्कृतभाषा तथा तस्याः संवर्धनस्य च चर्चा अभवत् । संस्कृतभारतीकार्यकर्तारः लोकसभायां संस्कृतेन शपथग्रहणस्य आग्रहपूर्वकं निवेदनं श्री. म्हस्केमहोदयं कृतवन्तः।
तदा संस्कृतभारती कोङ्कण ट्रस्ट इति न्यासस्य प्रतिनिधिः श्री. रविराजः अहिरावः कोङ्कणप्रान्तस्य सहमन्त्री श्रीमती श्यामला भट प्रान्तस्य संपर्कप्रमुखः श्री. हरेशः सुधाकरः अमडेकरः प्रान्तस्य प्रचारप्रमुखः श्री. महेशः परळकरः संयोजिका - ठाणे जनपदः श्रीमती अवंतिका सराफदार ठाणे जनपदस्य सम्पर्कप्रमुखा श्रीमती डॉ. शिल्पा ताटके ठाणे गणसदस्यः - श्री. मकरंदः मुळे गणसदस्यः- श्री. सनराजः अहिरावः समन्वयकः - श्री. राजेशः पोटे च उपस्थिताः आसन्।
संस्कृतभाषा सर्वासु भाषाणां जननी अस्ति अस्याः अत्यन्तं प्राचीनभाषायाम् अस्माकं भारतीयसंस्कृतेः प्राचीनकालात् प्रदत्तं ज्ञानं च विद्यते। अतः अस्माकमेव एतस्याः महान् भाषायाः संरक्षणस्य प्रचारस्य च दायित्वम् अस्ति इति भावः म्हस्के महोदयेन प्रकटितः। महोदयः एवम् अपि उक्तवान् यत् संस्कृतभारत्याः अनुरोधस्य अवश्यमेव आदरं करिष्यामि इति।.
- Post By : Samskrita Barati Konkan
- |
- 15-06-2024
- |


























.jpeg)











.jpeg)























