Top
संस्कृतभारती - कोङ्कणम्
Latest Media & News
रत्नागिर्यां नूतनसंवत्सरस्य विद्वत्परिषदः कार्यस्य शुभारम्भः।

कोङ्कणप्रान्तस्य विद्वत्परिषदः अस्य संवत्सरस्य कार्यस्य शुभारम्भः रविवासरे फेब्रुवारी २५ दिनाङ्के रत्नागिरीनगरे विद्यमाने कालिदाससंस्कृतविश्वविद्यालयस्य प्रा पाण्डुरङ्ग वामन काणे अध्ययनकेन्द्रे अभवत्। विद्वत्परिषदः प्रान्तप्रमुखः श्रीमान् महाबलभट्टः पत्राचारद्वारासंस्कृतयोजनायाः प्रमुखः डॉ सन्दीप जोशी उत्तरगोवाजनपदमन्त्री श्रीमान् अविनाश योगी च उपकेन्द्रं गत्वा केन्द्रसमन्वयकेन डॉ दिनकर मराठे महोदयेन सह विद्वत्परिषदः कार्यविषये चर्चाम् अकुर्वन्। उपकेन्द्रे ज्योतिष-वास्तुशास्त्र-नाट्यशास्त्रादीनाम् अध्ययनावसरविषयेऽपि चर्चा अभवत्। विद्वत्परिषदः कार्याय सम्पूर्णसहकारस्य वाग्दानं तत्रभवता दिनकरमहोदयेन कृतम्। त्रयः अपि शोधप्रबन्धसङ्ग्रहग्रन्थेन सभाजिताः।.


  • Post By : Samskrita Barati Konkan
  • |
  • 26-02-2024
  • |