Top
संस्कृतभारती - कोङ्कणम्
Latest Media & News
कोङ्कणप्रान्तस्य बालकेन्द्रप्रशिक्षणवर्गः सुसम्पन्नः।

अस्मिन् वर्षे बालकेन्द्रप्रशिक्षणम् लोढा क्राउन लोढा वर्ल्ड स्कूल तळोजा इत्यत्र संपन्नम् |
25 दिनांके प्रात: आरभ्य 26 दिनांके सायं पर्यन्तम् वर्गस्य कालावधि: आसीत् | वर्गस्य उद्घाटनम् कोङ्कणप्रान्तसहमन्त्रिमहोदया सौ. श्यामला भट कृतवती |
दिनद्वये अस्मिन् वर्गे बालकेन्द्रसंचालनार्थं उपयुक्तानि विविधसत्राणि स्वीकृतानि |
वर्गाधिकारी सौ. वरदा फडके कार्यवाहिका सौ. नेहा दांडेकर शिक्षणप्रमुखा सौ. स्नेहल पाडळकर व्यवस्थाप्रमुख: श्री.किशोर उधोजी नियन्त्रिका सौ. अनघा ताम्हनकर च संचालनसमित्यां कार्यं कृतवन्त: |
प्रशिक्षणार्थं आहत्य 63 छात्रा: तेषु 59 महिला: 4 पुरुषा: प्रान्तस्य 18 जनपदक्षेत्रत: आगत्य भागं स्वीकृतवन्त: |
7 शिक्षका: 5 प्रबन्धका: तदर्थं स्वसहयोगं कल्पितवन्त: | प्रान्तगणत: त्रयाणाम् अधिकारिणां वर्गे अवधानम् अभवत् |
वर्गस्य अस्य समापने पाथेयभाषणम् कोङ्कणप्रान्तमन्त्रि श्री. नीरज दांडेकर महाभाग: कृतवान् |.


  • Post By : Samskrita Barati Konkan
  • |
  • 29-05-2024
  • |