Top
संस्कृतभारती - कोङ्कणम्
Latest Media & News
संस्कृतभारती कोङ्कणप्रान्तस्य आभासीय-सम्भाषणवर्ग-अभियानं सम्पन्नम्।

संस्कृतभारत्याः कोङ्कणप्रान्तेन ११ तः २० मार्च २०२४ इति दशदिनेभ्यः आभासीय माध्यमेन संस्कृतसम्भाषणवर्गाणां अभियानं सञ्चालितम्। पञ्चदशेषु वर्गेषु ७२० जनाः आ प्रान्तात् पञ्जीयनं कृतवन्तः। सामान्यतः ४०० जनाः सातत्येन वर्गे उपस्थिताः आसन्। २० दिनाङ्के प्रत्येकं वर्गस्य समापनकार्यक्रमे प्रान्तस्य एकेन कार्यकर्त्रा वक्तृरुपेण तथा समाजे मान्यवरेषु एकेन अतिथिरूपेण च छात्राः सुयोग्येन उद्बोधनेन प्रेरिताः। आगामिकाले संस्कृतभारत्याः के के उपक्रमाः भविष्यन्ति कथं सातत्येन पठनीयम् अस्य विषये च वक्तारः मार्गदर्शनं कृतवन्तः। पञ्चदश मान्यवरेषु सङ्गीतकारः कौशलः इनामदारः साक्षात्कारकः सुधीरः गाडगीळः आकाशवाणीनिवेदिका मानसी आमडेकर वैद्या सुचित्रा कुलकर्णी हृदयशस्त्रक्रियातज्ज्ञः डॉ. श्रीनिवासः कुडवा बालशस्त्रक्रियातज्ज्ञः डॉ. राजीवः रेडकरः गोवाराज्यस्य लोकायुक्तः अम्बादासः जोशी एम इंडिकेटर ऐप-संस्थापकः सचिन टेके संस्कृतज्ञा डॉ. स्वाती द्रविड उद्योगि: पुरूषोत्तम: आगवण: उद्योगि: प्रभात: गाङ्गणः शिक्षासंस्थाचालकः आशिषः गौतमः प्राध्यापकः डॉ. सन्दीपः नेमळेकरः विधिज्ञ मनमोहनः चोणकरः तथा मध्यरेलस्य मुख्यजनसम्पर्काधिकारी स्वपनीलः नीला च - एते मान्यवराः विभिन्नेषु क्षेत्रेषु सम्मिलिताः आसन्। ते सर्वे स्वस्य जीवने संस्कृतस्य सम्बन्धः प्रभावः च कथम् अस्ति इति विषये उक्तवन्तः। संस्कृतस्य विषये अधुना यद् वातावरणम् अस्ति तद् स्वातन्त्र्यानन्तरं प्रथमवारम् एव अधिकं दृश्यते। संस्कृतस्य शास्त्रीयमहतीविषये सुचित्रामहोदया उक्तवती। अस्माकं संविधाने अपि संस्कृतस्य स्थानं परमोच्चपदे योजितम् अस्ति। सुभाषितानि काव्यानि शास्त्राणि च संस्कृतेनेव मण्डितानि।
मान्यः अम्बादासजोशीमहोदयः स्वभाषणे छात्राणां संवादकौशलं प्रशंसितवान्। यथा देवः परिश्रमेण साध्यः तथा संस्कृतमपि देवभाषात्वेन प्रयत्नैः पठनीयम्। सिद्धभाषायाः संस्कृतस्य उच्चारणेन मुखव्यायामः भवति। व्याकरणात् पूर्वं सम्भाषणम् एव योग्यम् इति सः प्रतिपादितवान्। मानसीमहोदया महाराष्ट्रे दुर्गमेक्षेत्रे‌ प्रचलितभाषायां विद्यमानशब्दानां संस्कृतसम्बन्धविषये कथितवती। कथं नाट्यक्षेत्रेण सा संस्कृतम् अवगतवती इति विस्तरेण उक्तवती। श्रीमान् मनमोहन-चोणकर-महोदय: कार्यक्रमं दृष्ट्वा बाल्यकालस्य संस्कृतपठनं स्मृतवान् । संस्कृतभाषाया:
उन्नयनार्थं मुम्बई विश्वविद्यालये द्विशतवर्षेभ्यः यावत् छात्राः नानाशङ्करशेठ महोदयेन आरब्धां शिष्यवृत्तिं प्राप्तुं शक्नुवन्ति । नानाशङ्करशेठवर्यस्य संस्कृत-अध्ययन-केन्द्रं मुम्बई विश्वविद्यालये आरप्स्यते । वडालानगरे नाना शङ्करशेठ स्मारके संस्कृतभारत्या सह अध्ययनाय संस्कृतकेन्द्रम् आरप्स्यते इति महोदयः उक्तवान्। संस्कृतज्ञा डॉ. स्वाति महोदया कार्यक्रमे संस्कृतभारतीविषये तथा च शिबिरस्य पाठ्यक्रमविषये चर्चां कृतवती। कथं वयं दैनन्दिनजीवनसन्दर्भे प्रयोगं कुर्मः यथा दैनन्दिनजीवनस्य शब्दाः लघुवाक्यानि कथं प्रयुञ्ज्महे इति उक्तवती। संस्कृतभाषा कथं महत्त्वपूर्णा अस्ति तदुक्त्वा संस्कृतस्य विभिन्नशाखानां कथम् अध्ययनं कर्तुं शक्नुवन्ति इति बोधितवती। एवमेव सर्वे मान्यवराः छात्रान् प्रेरितवन्तः। तेन अभियानस्य समाजेन सह सम्बन्धस्य इतोऽपि वर्धनम् अभवत्। एते छात्राः मार्गदर्शनं प्राप्य अग्रे पठनाय कार्याय च सिद्धाः इति वक्तुं शक्यते।.


  • Post By : Samskrita Barati Konkan
  • |
  • 21-03-2024
  • |