Top
संस्कृतभारती - कोङ्कणम्
Latest Media & News
संस्कृतसप्ताहशोभायात्रा

ठाणेजनपद- संस्कृतसप्ताहशोभायात्रा-वृतान्त :
दिनांकः- ०२/०९/२०२३
वासरः- शनिवासरः।
समयः-सायं ४.०० तः ५.०० पर्यन्तम्।
स्थानम्- ऋतु-इस्टेटतः अर्केडीया हिरानंदानी-इस्टेटपर्यन्तम्।
प्रमुखा उपस्थिती-
कोङ्कण-प्रान्त-विद्यालयप्रमुखः - नारायणः महोदयः।
ठाणेजनपदप्रमुखः- महेशः परळकर-महोदयः।
आहत्य उपस्थिती- २०।

ॲागस्टमासस्य २६ दिनांकतः ठाणेनगरे विविधविधया संस्कृतसप्ताहस्य आचरणम् अभवत्। तदनु शनिवासरे २/९/२०२३ दिनाङ्के मानपाडा-वडवलिनगर-क्षेत्रे शोभायात्रायाः आयोजनं कृतम् आसीत्। ऋतु-इस्टेट-मुख्यद्वारतः ध्येयमन्त्रं गीत्वा शोभायात्रा आरब्धा। विविधाः घोषणाः संस्कृतगीतानि च गायन्तः सर्वे सहभागिनः आनन्दं गृहीतवन्तः। नैके बालाः स्वपालकैः सह फलकानि दर्शयन्तः सर्वतो अग्रे अचलन्। मार्गे शोभायात्रां द्रष्टुम् आगतान् जनान् संस्कृतभारत्याः पत्रकाणि वितरन्ती संस्कृतभारत्याः आयामानां अल्पपरिचयं कारयन्ती शोभायात्रा ४.४० वादने अर्केडीयास्थानं प्राप्तवती। तत्र घोषणाः कथाकथनं कानिचन् संवादप्रदर्शनानि गीतानि च गीत्वा जनान् संस्कृत-संस्कृतभारती-संस्कृतकार्याणां च विषये ज्ञापनम् अभवत्। अन्ते महेशमहोदयः संस्कृतभारत्याः कार्यस्य विषये उपस्थितान् उद्बोधितवान्। कार्यक्रमस्य समापनं शान्तिमन्त्रेण अभवत्।.


  • Post By : Samskrita Barati Konkan-Thane
  • |
  • 04-09-2023
  • |