Latest Media & News
उत्तरभागस्य प्रान्तीय अभ्यासवर्गः (पालघरतः रायगडपर्यन्तं १८ जनपदाः)
संस्कृतभारत्याः कोङ्कणप्रान्तस्य जनपदसंयोजकानां अभ्यासवर्गः २० अगस्त २०२३ दिनाङ्के ब्राह्मणविद्यालयः ठाणे इत्यत्र आयोजितः। अभ्यासवर्गे प्रधानत्वेन उपस्थितः आसीत् मा. अखिलभारतीयः पत्रद्वाराप्रमुखः हुलाशचन्दमहोदयः। जनपदसंयोजकाः प्रान्तकार्यकर्तारः च संमिल्य आहत्य २५ जनाः उपस्थिताः आसन्। उद्घाटनसत्रे प्रास्ताविकम् अस्तौत् मा. प्रान्तमन्त्री नीरजदाण्डेकरमहोदयः तथा नूतनदायित्वानाम् उद्घोषणम् अभवत्।
आहत्य सप्तसत्रेषु कार्यकर्तृनिर्माणम् गोष्ठी अनुशासनम् शिक्षणद्वारा सङ्घटनम् इति बिन्दून् स्वीकृत्य प्रान्तकार्यकर्तृभिः मार्गदर्शनं कृतम्। वर्गस्य समापनसत्रे मान्यैः हुलाशचन्दमहोदयैः मार्गदर्शनं कृतम्। शान्तिमन्त्रेण वर्गः समाप्तः।.
- Post By : Samskrita Barati Konkan
- |
- 23-08-2023
- |


























.jpeg)











.jpeg)























