Top
संस्कृतभारती - कोङ्कणम्
Latest Media & News
कोङ्कणप्रान्तस्य समीक्षा-योजना-गोष्ठी

कोङ्कणप्रान्तस्य समीक्षा-योजना-गोष्ठी फेब्रुवारीमासस्य २२-२३ दिनाङ्कयोः डोम्बिवली इत्यत्र सम्पन्ना । गोष्ठ्याम् अस्यां संस्कृतभारत्याः अखिल-भारत-गीताशिक्षणकेन्द्र-प्रमुखः श्रीमान् शिरीषरावमहोदयः पूर्णसमयम् उपस्थितः आसीत् । दीपप्रज्ज्वालनेन भारतमातुः पूजनेन च गोष्ठ्याः आरम्भः अभवत्। सत्रं प्रान्तमन्त्री श्रीमान् नीरजः दाण्डेकरमहोदयः स्वीकृतवान् । तत्र सर्वे जनपदसंयोजकाः वृत्तकथनं तथा विशेषवृत्तकथनं च कृतवन्तः। प्रान्तस्य शिक्षण-प्रशिक्षण-सङ्घटनदृष्ट्या समीक्षाविषये चर्चा अभवत्। सम्भाषणशिबिरम् इत्यस्मिन् विषये प्रान्तमन्त्री मान्यः नीरज-दांडेकर-महोदयः उद्बोधितवान्।सम्पर्क- प्रान्त-कार्यालयः- प्रचारः इति आयामानां विषये तत् तत् आयामप्रमुखाः कथितवन्तः।
संयोजकैः करणीयानि कार्याणि इति विषये पश्चिम-क्षेत्र-सङ्घटनमन्त्री मान्यः श्रीमान् विठ्ठल-भट-महोदयः चर्चां कृतवान्। सायङ्काले बौद्धिकसत्रे मान्यः श्रीमान् शिरीषरावमहोदय: सम्पर्कः तथा साप्तहिकमेलनादि उपायैः कार्यकर्तृरक्षणम् इति विषये विशेषचर्चां कारितवान् उद्बोधितवान् च। रात्रौ विभागशः उपवेशनम् अभवत्।

गीताशिक्षणकेन्द्रं सम्भाषणशिबिरम् इति आयामयोः विषये प्रमुखे कथितवत्यौ। प्रशिक्षणप्रमुखेण श्रीमता आशिषमहोदयेन योजनाविषये सविस्तरं कथितम्।

संस्कृतकुटुम्बं तथा सुप्तशक्तिजागरणम् इत्यनयोः‌ विषये प्रान्तविद्वद्प्रमुखेण महाबलभट्टमहोदयेन उद्बोधितम् |

समारोपसत्रे प्रान्ताध्यक्षा मान्या डॉ. कल्पना-आठल्ये-महोदया उपस्थितान् उद्बोधितवती। मान्यः श्रीमान् शिरीषरावमहोदयः अन्ते पाथेयभाषणं कृतवान्।

आहत्य ५२ कार्यकर्तारः उपस्थिताः आसन्।
शान्तिमत्रेण गोष्ठी इयं समाप्तिं गता।.


  • Post By : Samskrita Barati Konkan
  • |
  • 26-02-2025
  • |