प्रबोधनवर्गस्य उद्घाटन कार्यक्रमः
संस्कृतभारती कोङ्कणप्रान्तः इत्यनेन आयोजितस्य प्रबोधनवर्गस्य उद्घाटनकार्यक्रमः डिसेम्बरमासस्य २५ दिनाङ्के विद्यप्रबोधिनीशिक्षासङ्कुलं पर्वरी गोवा इत्यत्र सम्पन्नः। अस्मिन् कार्यक्रमे जलस्रोतविभागतः निवृत्तः यान्त्रिकी अभियन्ता श्रीमान् दीपक-सरदेसाई-महोदयः मुख्यातिथिरूपेण उपस्थितः आसीत् । संस्कृतभारती कोङ्कणप्रान्त्स्य अध्यक्षा मान्या डॉ कल्पना-आठल्ये-महोदया विद्याप्रबोधिनीशिक्षासंकुलस्य अध्यक्ष: श्रीमान् संजय वालावलकर महोदयः संस्कृतभारती गोवा विभागस्य अध्यक्षः श्रीमान् आनन्द-देसाई-महोदयः एतस्य वर्गस्य वर्गाधिकारी अपि च उत्तर गोवा विभागस्य मंत्री श्रीमान् प्रसाद-उमर्ये-महोदय: अपि अत्र उपास्थिताः आसन् ।
कार्यक्रमस्य आरम्भः ध्येयमन्त्रेण तथा च दीपप्रज्ज्वालनेन अभवत्। कार्यक्रमस्य प्रास्ताविकं श्रीमान् प्रसाद-महोदयः कृतवान्। प्रास्ताविके संस्कृतेन संभाषणं संस्कृतेन पाठनम् इति अस्याः संस्थाया: व्रतस्य निर्वहणं विविधैः उपक्रमैः कथं लक्षितम् अस्ति इति विषये बोधितवान् तथा च संस्कृतभाषायाः संवर्धनाय अस्य वर्गस्य महत्त्वस्य विषये सर्वेषां मार्गदर्शनं कृतवान् । ओरोबिन्दो संस्थायां सभासदरूपेण कार्यरतेन श्री. दीपक-सरदेसाई-महोदयेन संस्कृतं प्रति उत्साहवर्धकैः सूत्ररूपैः शब्दैः सर्वेषां मार्गदर्शनं कृतम्। ‘संस्कृतं मातृभाषा भवेत्’ इति ओरोबिंदो संस्थायाः आदरणीया माता अपि इच्छां प्रकटितवती इति सः बोधितवान् ।
सनातन धर्मस्य भारतीयसंस्कृतेः मूल्यानां रक्षणार्थं विद्याप्रबोधिनी संस्था कथं कार्यरता अस्ति इति विषये श्री. संजय-वालावलकर-महोदयः बोधितवान् । गोवाप्रदेशे जायमानस्य अस्य प्रबोधनवर्गस्य विषये अभिमानं प्रकटीकृत्य अग्रिमेषु एतादृशेषु कार्येषु अस्याः संस्थायाः साहाय्यं भविष्यति इति आश्वासनम् अपि दत्तवान्।
डॉ. कल्पना-महोदयायाः आध्यक्षीयभाषणेन अतिथीनां मार्गदर्शनं पूर्ण जातम्। तस्याः भाषणे महोदया छात्राणां मनसि ‘अस्मात् वर्गात् अनन्तरम् अहं निश्चयेन संस्कृतभाषया सम्भाषणं कर्तुं शक्ष्यामि’ इति आत्मविश्वासं दृढीकृतवती। तथा च तत् साधयितुं प्रबोधनवर्गः इति सोपानस्य महत्त्वम् अपि बोधितवती। अन्ते ऋणनिर्देशेन उद्घाटनसत्रस्य समापनम् अभवत्।
कार्यक्रमस्य सूत्रसञ्चालनं श्रीमान् राजेश-ठक्कर-महोदयः कृतवान्। अतिथीनां परिचयं श्रीमती अक्षया-भागवत-भगिनी कृतवती। ऋणनिर्देशं श्रीमती मेघना-देवारी-भगिनी कृतवती।
अस्मिन् कार्यक्रमे वर्गार्थं सम्पूर्णप्रान्ततः आगताः ५५ छात्राः तथा च १५ कार्यकर्तारः आसन् ।.
- Post By : Samskrita Barati Konkan
- |
- 14-01-2025
- |


























.jpeg)











.jpeg)























