Top
संस्कृतभारती - कोङ्कणम्
Latest Media & News
ठाणेजनपदे पुस्तकविक्रयणकक्षः

गुरुवासरे १३ एप्रिल २०२३ दिनाङ्के प्रातः ठाणेजनपदस्य नौपाडानगरे पुस्तकविक्रयणकक्षस्य उद्घाटनम् अभवत्। संस्कृतभारत्याः अखिलभारतीयः प्रचारप्रमुखः मान्यः शिरीषभेडसगावकर-महोदयः तथा यू.ए.ई.सङ्घटनमन्त्री मान्यः बालसुब्रह्मण्यमहोदयः अनयोः उपस्थितौ अयं कार्यक्रमः सम्पन्नः। शिरीषमहोदयः संस्कृतभारत्याः पुस्तकानां विषये उपस्थितानां बोधनम् अकरोत्। सुरवाणी संस्कृतपाठशालायाः सहयोगेन अयं कक्षः चाल्यते।.


  • Post By : Samskrita Barati Konkan-Thane
  • |
  • 18-04-2023
  • |