Top
संस्कृतभारती - कोङ्कणम्
Latest Media & News
घाटकोपर-चेम्बुर-जनपद-सम्मेलनम् : ०४ नवम्बर २०२३

नवम्बरमासस्य चतुर्थ दिनाङ्के शनिवासरे संस्कृतभारत्या: घाटकोपर तथा चेम्बूर जनपदौ केन्द्रीय संस्कृत विद्यालय: क.जे.सोमय्या कला-वाणिज्य-महाविद्यालय: क.जे.धर्मा स्टडीज सोमय्या परिसर: च एतासां संस्थानां संयुक्तेन विद्यमेन संस्कृत-सम्मेलनं सम्पन्नम्। प्रातःकाले सार्धनववादने आरब्धं सम्मेलनं सायङ्काले षड्वादनपर्यन्तं प्राचलत्। दशवादने उद्घाटन-समारोहस्य प्रारम्भः अभवत्। मुख्यातिथि रूपेण आय. आय. टी. मुम्बईत: श्रीमान् वरदराज: बापट: महोदयः उपस्थितः। कला-वाणिज्य महाविद्यालयस्य प्राचार्य: श्री किशन: पवार: महोदयः संस्कृतभारत्या: श्रीमान् महाबल भट महोदयः श्रीमती पल्लवी नलावडे महोदया (धर्मा स्टडीज) तथा घाटकोपर जनपदस्य संयोजिका श्रीमती अलका कापडिया महोदया आदि मञ्चे उपस्थिता: आसन्। अलका भगिन्या सम्मेलनस्य प्रयोजनं स्पष्टीकृतम्। मञ्चे उपस्थितैः विद्वज्जनैः संस्कृतभाषा विषये स्वस्य विचारा: बोधिताः। कुमार भट्ट महोदयेन संस्कृतभारत्या: कार्यप्रणाली विस्तरेण बोधिता। शिवाजीमहाराजस्य सिंहासनारोहणस्य एतत् सार्धत्रिशततमं वर्षम्। अतः राज्यव्यवहारकोषः इति विषयः स्वीकृत्य डाॅ. सन्दीप: जोशी महोदयेन बोधितः। अनन्तरं डाॅ.मोनालिसा बेहरा महोदया आर्ट तथा किङ्गशिप इति विषये विस्तरेण स्वस्य संशोधनस्य उपस्थापनं कृतवती। अग्रीमे सत्रे डाॅ. महेश: शेट्टी (विल्सनमहाविद्यालय:) - रिविव्ह क्लासिकल पिरियड इन ऐस्ट्रोनोमी इति विषये बोधितवान्। तदनन्तरं डाॅ. रुद्राक्ष: साक्रिकर: (धर्मा- स्टडीज) वेदर सायन्स इन संस्कृत इति विषये उक्तवान्। समापन समारोहे संस्कृतभारत्या: अखिल-भारतीय प्रचारप्रमुख: श्रीमान् शिरीष: भेडसगावकर: महोदयः सम्बोधितवान्। तदनन्तरं सांस्कृतिक कार्यक्रमे घाटकोपर-बालकेन्द्रस्य छात्रा: रासनृत्यं कृतवन्त:। सोमय्या महाविद्यालयस्य छात्रा मनोहरं भरत-नाट्यं सादरं कृतवती। केन्द्रीय-संस्कृत-महाविद्यालयस्य छात्रैः एकं बोधपूर्णं लघु-नाटकं प्रस्तुतम्। वन्देमातरं गीतेन कार्यक्रमस्य समाप्तिः अभवत्। अस्मिन् कार्यक्रमे आहत्य सार्धद्विशतजना: उत्साहेन भागं स्वीकृतवन्तः।.


  • Post By : Samskrita Barati Konkan
  • |
  • 20-11-2023
  • |