संस्कृतस्य प्रचारार्थं टाटा-मुम्बई-मॅरेथॉन २०२५ स्पर्धायां संस्कृतभारत्याः सहभागः।
प्राचीनभारतीयभाषायाः संस्कृतस्य संरक्षणस्य विषये जागरूकतां जनयितुं संस्कृतभारत्याः कार्यकर्तारः टाटा-मुम्बई-मॅरेथॉन-स्पर्धायां भागं ऊढवन्तः। एषा स्पर्धा प्रतिवर्षम् आयोजिता भवति यत्र विभिन्नसामाजिकसंस्थानां सहकार्याय जनाः भागं स्वीकुर्वन्ति। युनाइटेड् वे आफ मुम्बई इत्यनेन प्रदत्तस्य सद्यस्क-मञ्चस्य माध्यमेन २ लक्ष्यरुप्यकं यावत् धनसङ्ग्रहणं जातम्। तदर्थं मासत्रयाधिक-कालः लभ्यते।
आहत्य स्पर्धायां ६२ सहस्रधावकाः भागं स्वीकृतवन्तः येषु अस्माकं १७ धावकाः आसन्। १५ धावकाः फुल मॅरेथॉन नाम ४२.२ किमी एकः १० किमी एवञ्च एका ५.९ किमी धावनं कृतवन्तः।
एषा स्पर्धा मुम्बईनगरस्य सुप्रसिद्धमार्गेषु आयोजिता भवति।
अस्माकं अन्ये कार्यकर्तारः प्रोत्साहनं दातुं भिन्नभिन्नस्थानेषु यथा चौपाटी मरीन लाइन्स इत्यादि स्थानेषु स्थिताः आसन्। जलवितरणं फलवितरणम् इत्यादि कार्ये सहकार्यं कुर्वन्तः संस्कृतभारत्याः प्रचारपत्रकस्य वितरणं कृतवन्तः। कार्यकर्तृभिः धावकानां औक्षणम् अपि कृतं येन ते आनन्दिताः प्रेरिताः च जाताः। अस्माभिः सह चित्रम् अपि स्वीकृतवन्तः। संस्कृतस्य संस्कृत्याः च प्रकटकार्येण जनाः आनन्दम् अनुभूतवन्तः।
संस्कृतभाषा न केवलं वैदिकभाषा परम् आधुनिककाले अपि जनाः निश्चयेन इच्छन्ति इति ज्ञायते।
सङ्गृहीतं धनं संस्कृतभारत्याः उपक्रमार्थं सहायकं भविष्यति। टाटा-मुम्बई-मॅरेथॉन इति एषा स्पर्धा न केवलं शारीरिकस्वास्थ्यार्थम् अपि तु संस्कृतिरक्षणाय भाषारक्षणाय भाषाप्रसाराय च सार्थकमञ्चरूपेण परिणता। अग्रे विस्तृतरूपेण न केवलं संस्कृतभारत्याः क्षेत्रे अपि तु अन्यासु संस्थासु आस्थापनेषु च (क्रिडाभारती वा वित्तकोषाः वा) प्रचारं कुर्मः चेत् इतोऽपि बलवर्धनं शक्यते।.
- Post By : Samskrita Barati Konkan
- |
- 22-01-2025
- |


























.jpeg)











.jpeg)























