दक्षिण-रत्नागिरी-जनपदस्य संस्कृतदिनकार्यक्रमः बुधवासरे १३ सप्टेंबर २०२३ दिनाङ्के साळवी स्टॉप इत्यत्र युथ ॲक्टिव्हिटी सेंटरमध्ये संस्कृतानुरागिणाम् उपस्थित्यां सम्पन्नः। अस्मिन् कार्यक्रमे आहत्य ३० जनाः उपस्थिताः आसन्। नाचणे-पूर्व-प्राथमिक-शालायाः शिक्षकः श्री. दीपक-नागवेकरमहोदयः प्रमुखातिथिरूपेण उपस्थितः आसीत्। तथा च संस्कृतभारत्याः रत्नागिरी-विभाग-संयोजकः श्री. मनोहर-काजरेकर-महोदयः वक्तृरूपेण उपस्थितः आसीत्। ध्येयमन्त्रेण कार्यक्रमस्य आरम्भः जातः। मान्यवरैः दीपप्रज्ज्वालनं तथा भारतमातुः पूजनं कृतम्। कोङ्कणप्रान्तस्य उपाध्यक्षा मा. डॉ. कल्पना-आठल्येमहोदया मान्यवराणां स्वागतं कृतवती। सांस्कृतिककार्यक्रमाणाम् अनन्तरं अतिथिमहोदयः स्वविचारान् प्रकटीकृतवान्। श्री. काजरेकरमहोदयेन संस्कृतभाषायां सुभाषितानां महत्त्वं तथा सौन्दर्यं सोदाहरणं दर्शितम्। शान्तिमन्त्रेण कार्यक्रमस्य समापनम् अभवत्।.
- Post By : Samskrita Barati Konkan
- |
- 20-09-2023
- |


























.jpeg)











.jpeg)























