Top
संस्कृतभारती - कोङ्कणम्
Latest Media & News
संस्कृतगीतानां सुमुधर: कार्यक्रम:

संस्कृतोल्लास- कार्यक्रमस्य वृतान्त :
(संस्कृतगीतानां सुमुधर: कार्यक्रम:!!)
दिनांकः- ३/०९/२०२३
वासरः- रविवासरः।
समयः- २.४५ तः ४.३० पर्यन्तम्।
स्थानम्- घंटाळीदेवी-मन्दिरम् नौपाडा ठाणे।
प्रमुखा उपस्थिती-
कोङ्कण-प्रान्त-विद्यालयप्रमुखः - नारायणः महोदयः।
ठाणेजनपदप्रमुखः- महेशः परळकर-महोदयः।
आहत्य उपस्थिती- २०।

ॲागस्टमासस्य २६ दिनांकतः प्रचलतः संस्कृतसप्ताहाचरणस्य समाप्ती ३ सप्टेंबरदिनाङ्के संस्कृतगीतानां प्रस्तुतया संस्कृतोल्लासकार्यक्रमेण अभवत्। कार्यक्रमस्य आयोजनं नौपाडानगरे घंटाळीमंदीरे कृतम्। सार्धैकघण्टा प्रचलते एतस्मै कार्यक्रमाय बहवः कार्यकर्तारः भागं स्वीकृतवन्तः। कार्यक्रमस्य आरम्भः दीपप्रज्वलनेन भारतमातुः पूजनेन च अभवत्। उपस्थिताः प्रान्त-जनपदस्तरीयाः कार्यकर्तारः दीपप्रज्वलनं कृतवन्तः। सूत्रसंचालिका दीप्तिः भगिनी भारतमातुः श्लोकं ध्येयमन्त्रं च अगायत्। मङ्गलाचरणं गणेशपञ्चरत्नं गीतवती प्रतिभा भगिनी। तदनुसृत्य नारायणमहोदयः महागणपति मनसा स्मरामि… इति गीतं गीतवान्। शीला-पै-महोदया नय तव बालमिदम्… तथा देशोऽयं मम देशोऽयं.. इति गीतद्वयं गीतवती। रेणुका- शानभाग-भगिनी मम माता देवता… तथा च शिरीष-अत्रे-भगिन्या अनूदितं देवी-सरस्वती-गीतं च गीतवती। तब्लावादकः गायकः दिनकरः इनामदारमहोदयः आयाही रे आयाही रे… इति धीवरगीतं गीतवान्। जीवनस्य लक्ष्यमेव… इति गीतं गीत्वा शिल्पा भगिनी सर्वान् लक्ष्यं प्रति प्रेरितवती। शिरीषभगिन्या अनुदीतं रामधूनगीतं प्रतिभाभगिनी गीतवती गापितवती च। चल चल पुरतो… इति गीत-गायनानुगायनेन स्मिताभगिन्या सर्वेषां मनसि उत्साहः पुनःपूरितः। महेशमहोदयः नारयणमहोदयः च देववाणीं वेदवाणीं.. तथा नुपुरधारीबालकृष्ण.. इति गीतद्वयं सर्वतोमुखात् गापयीयत्वा कार्यक्रमस्य चैतन्यं वर्धितवन्तौ। कार्यक्रमस्य अन्ततो गत्वा कृत्वा नवदृढसंकल्पं… इति संकल्पगीतं शिल्पाभगिन्या सह सर्वे उपस्थिताः गीतवन्तः। तथा च इतोपि उत्साहेन संस्कृतमातुः सेवां कुर्मः इति सङ्कल्पं कृतवन्तः। कार्यक्रमस्य समापनं शान्तिमन्त्रेण अभवत्।.


  • Post By : Samskrita Barati Konkan-Thane
  • |
  • 04-09-2023
  • |