Top
संस्कृतभारती - कोङ्कणम्
Latest Media & News
दक्षिण-रत्नागिरी-जनपदे बालकेन्द्रयोः वार्षिकोत्सवः सम्पन्नः।

दक्षिण-रत्नागिरी-जनपदे बालकेन्द्रयोः वार्षिकोत्सवः सम्पन्नः।

मार्चमासस्य ९दिनाङ्के दक्षिण-रत्नागिरी-जनपदस्य बालकेन्द्रयोः वार्षिकोत्सवः अखिल-चित्पावन-ब्राह्मण-विद्यार्थी-साहाय्यक-मण्डलस्य श्री-परशुराम-सभागृहे आनन्देन उत्साहेन च सम्पन्नः।
अस्य कार्यक्रमस्य कृते बालकाः पालकाः कार्यकर्तारः च मिलित्वा आहत्य ६० जनाः उपस्थिताः आसन्। बालकैः विविधानां कार्यक्रमाणां प्रस्तुतिः कृता। संस्कृतगीतानि कथा संवादः नृत्यं गुणनतालिका एते कार्यक्रमाः सर्वान् मोदितवन्तः। पालकैः बालकेन्द्रस्य विषये स्वमतम् प्रकटीकृतम्। वार्षिकोत्सवे पुस्तकविक्रयणं तथा वस्तुप्रदर्शिनी च आसीत्।
कार्यक्रमस्य मुख्यातिथिरूपेण उपस्थिता आसीत् रत्नागिरीस्थितस्य कृ. चिं. आगाशे प्राथमिकविद्यालयस्य मुख्याध्यापिका मान्या सौ. प्राजक्ता कदममहोदया। महोदयया बालकानां अभिनन्दनं कृतम्। बालकेन्द्रं केवलं संस्कृतस्य प्रचारः न अपि तु तद् बालकानां मनसि संस्कारान् च करोति। एषः उपक्रमः सर्वेषु विद्यालयेषु भवेत् इति महोदया उक्तवती।
कार्यक्रमस्य प्रास्ताविकं तथा च मुख्यतिथि-परिचयं दक्षिण-रत्नागिरी-जनपदमन्त्रिणी सौ. अक्षया-भागवत-महोदया कृतवती। सम्पूर्णकार्यक्रमस्य सञ्चालनं दक्षिण-रत्नागिरी-जनपद-बालकेन्द्र-प्रमुखा कु. तेजश्री-जोशी-भगिनी कृतवती। सौ. ऋचा-बापट-महोदयया ऋणनिर्देशनं कृतम्। शान्तिमन्त्रेण कार्यक्रमः समाप्तः।.


  • Post By : Samskrita Barati Konkan
  • |
  • 10-03-2025
  • |