डोम्बिवलीनगरस्य बालकेन्द्राणां वार्षिकोत्सवः
कोङ्कणप्रान्तस्य कल्याणजनपदस्य डोम्बिवलीनगरे प्रचाल्यमानानां ५ बालकेन्द्राणां वार्षिकोत्सवः २ मार्च २०२५ दिनाङ्के सुसम्पन्नः। बालकेन्द्रस्य छात्राः सोत्साहं उत्तमानि प्रात्यक्षिकाणि प्रदर्शितवन्तः। नाटकानि गीतानि विनोदकणिकाः नृत्यम् एतादृशप्रात्यक्षिकैः बालाः सर्वान् मोदितवन्तः। तत्र कृष्णसुदामयोः मित्रता शबरीरामयोः संवादः वैद्यरोगी सम्भाषणम् एतादृशानि प्रेरणादायीनि नाटकानि आसन्।
आहत्य ५० बालाः ९ शिक्षिकाः च आसन्। पालकाः एवञ्च संस्कृतभारती कार्यकर्तारः मिलित्वा आहत्य १२५ जनाः भागं गृहीतवन्तः। कार्यक्रमे मुख्यातिथिरुपेण उपस्थितः आसीत् श्री. योगेश वाळुंजकर महोदयः। बालानां प्रात्यक्षिकेण महोदयः नितरां सन्तुष्टः। प्रेरणादायीशब्दैः सः बालेभ्यः अभिनन्दवचनानि दत्तवान्। संस्कृतभारती पक्षतः मुख्यवक्तृरुपेण उपस्थिता आसीत् सौ. ख्यातिः देशपाण्डे महोदया। महोदया प्रान्तसदस्या अस्ति एवञ्च सम्भाषणशिबिरप्रमुखा अस्ति। महोदयया बालानां कृते कथं संस्कृतं महत्त्वपूर्णं भवति एवञ्च तेभ्यः प्रेरणां स्वीकृत्य वयं ज्येष्ठाः अपि पठितुं शक्नुमः इत्यस्मिन् विषये उद्बोधनं कृतम्।
ज्येष्ठकार्यकर्तॄषु उपस्थिताः आसन् प्रान्तसहमन्त्रिणी सौ. श्यामलाभट् महोदया क्षेत्रसङ्घटनमन्त्री श्री. विठ्ठलभट् महोदयः प्रान्तश्लोकपाठनकेन्द्रप्रमुखः श्री. रवीद्रखाडिलकर महोदयः कल्याणजनपदसंयोजिका सौ. चित्ररेखामयेकर भगिनी।
बालकेन्द्रप्रमुखा सौ. अर्चनाथेटे भगिन्या प्रास्ताविकं कृतम् बालकेन्द्रस्य शिक्षिका सौ. शीलापाटिल भगिन्या सूत्रसञ्चालनं कृतम् नगरसंयोजकेन श्री. किशोरराव महोदयेन ऋणनिर्देशनं कृतम्। शान्तिमन्त्रेण कार्यक्रमः समाप्तः।.
- Post By : Samskrita Barati Konkan
- |
- 02-03-2025
- |


























.jpeg)











.jpeg)























