२१-जून-२४ दिनाङ्के संस्कृतभारती कोङ्कणप्रान्तस्य प्रतिनिधीः उत्तरगोवा लोकसभा निर्वाचनक्षेत्रस्य नवनिर्वाचितस्य सांसदस्य श्री. श्रीपाद नाईक महोदयस्य मिलित्वा तदर्थं अभिनन्दनं कृतवन्तः। अस्मिन् अवसरे संस्कृतभाषा तथा तस्याः संवर्धनस्य च चर्चा अभवत् । संस्कृतभारतीपक्षतः लोकसभायां संस्कृतेन शपथग्रहणस्य आग्रहपूर्वकं निवेदनं श्री. नाईकमहोदयं कृतवथ।
तदा कोङ्कणप्रान्तस्य सम्पर्कप्रमुखः श्री. हरेशः सुधाकरः अमडेकरः तथा गोवा विभागस्य संयोजकः श्री. प्रसादः उमर्ये च उपस्थिताः आस्ताम्।
संस्कृतभाषा सर्वासु भाषाणां जननी अस्ति एषा अस्माकं ज्ञानपरम्परायाः आधारः। अतः बालकालात आरभ्यः संस्कृतस्य पाठनं भवति चेत् सुसंस्कृत-बालकाः अग्रे संस्कारिताः नागरिकाः भविष्यन्ति इति विचारः श्रीपाद-नाईक-महोदयेन प्रकटितः। महोदयः एवम् अपि उक्तवान् यत् अस्मिन् वर्षे अपि संस्कृतभारत्याः अनुरोधानुसारम् अवश्यमेव संस्कृतेन शपथग्रहणं करिष्यामि इति।.
- Post By : Samskrita Barati Konkan
- |
- 22-06-2024
- |


























.jpeg)











.jpeg)























