कोङ्कणप्रान्तस्य समीक्षा-योजना-गोष्ठी फेब्रुवारीमासस्य २४-२५ दिनाङ्कयोः रत्नागिरी इत्यत्र सम्पन्ना । गोष्ठ्याम् अस्यां संस्कृतभारत्याः अखिल-भारत-प्रकाशन-प्रमुखः तथा अभिलेखाप्रमुखः मान्यः श्रीमान् दत्तात्रेय-वज्रल्ली महोदयः पूर्णसमयम् उपस्थितः आसीत् । दीपप्रज्ज्वालनेन भारतमातुः पूजनेन च गोष्ठ्याः आरम्भः जातः । उद्घाटनसन्दर्भे प्रान्ताध्यक्षा मान्या डॉ. कल्पना-आठल्ये-महोदया उपस्थितान् उद्बोधितवती । समीक्षासत्रं प्रान्त सहमन्त्रिणी सौ. श्यामला-भट-महोदया स्वीकृतवती । तत्र तत्तत् आयामप्रमुखाः समीक्षाम् उक्तवन्तः । प्रान्तस्य शिक्षण-प्रशिक्षण-सङ्घटनदृष्ट्या प्रस्तावित नियोजनम् आश्रित्य तद्विषये चर्चा जाता ।
करणीयानां कार्याणां विषये पश्चिम-क्षेत्र-सङ्घटनमन्त्री मान्यः श्रीमान् विठ्ठल-भट-महोदयः चर्चां कृतवान् । अग्रे सम्भाषणशिबिरम् इति विषये प्रान्तमन्त्री मान्यः नीरज-दांडेकर-महोदयः उद्बोधितवान् । तथैव सम्पर्कविभागस्य निवेदनं कृतवान् मान्यः श्री. हरेश-आमडेकर-महोदयः ।
सायंकाले बौद्धिक सत्रे मान्यः श्रीमान् दत्तात्रेय-वज्रल्लीमहोदयः कार्यकर्तुः स्तरवर्धनविषये तथा जनपदसंयोजकानां भूमिकाविषये उद्बोधितवान् । रात्रौ विभागशः उपवेशनम् अभवत् ।
द्वितीयदिने मम जीवने संस्कृतम् इति विषये अखिल-भारत-श्लोक-पठन-पाठन-केन्द्र-प्रमुखः मान्यः श्रीमान् चिन्मय-आमशेकर-महोदयः मार्गदर्शनं कृतवान् । अग्रे प्रान्तस्य विद्वत्परिषद् प्रमुखः मान्यः श्रीमान् महाबल-भट-महोदयः विद्वत्परिषदः प्रतिवेदनम् अकरोत् । समारोपसत्रे प्रान्ताध्यक्षा मान्या डॉ. कल्पना-आठल्ये-महोदया उपस्थितान् उद्बोधितवती । मान्यः श्रीमान् दत्तात्रेय-वज्रल्ली-महोदयः अन्ते पाथेयभाषणं कृतवान् ।
शान्तिमत्रेण गोष्ठी इयं समाप्तिं गता ।.
- Post By : Samskrita Barati Konkan
- |
- 04-03-2024
- |


























.jpeg)











.jpeg)























