Top
संस्कृतभारती - कोङ्कणम्
Latest Media & News
पश्चिम क्षेत्रस्य २०२४ वर्षस्य प्रशिक्षणवर्गः सम्पन्नः।

संस्कृतभारती पश्चिम क्षेत्रद्वारा १८ तः ३० मे २०२४ पर्यन्तं लोढा वर्ल्ड स्कूल तळोजा इत्यत्र प्रशिक्षणवर्गः आयोजितः आसीत्। वर्गस्य उद्घाटनसत्रे महाराष्ट्र-टाईम्स तः ज्येष्ठवित्तपत्रकारः वैभववझेवर्यः तथा चन्द्रशेखर-पाटकर-ट्रस्ट तः विश्वस्तः गुरूदत्ततिरोडकरवर्यः अतिथिरुपेण उपस्थितौ आस्ताम्। संस्थापक्षतः अखिल-भारतीय-स्तोत्रपाठनकेन्द्रप्रमुखः चिन्मय-आमशेकरवर्यः वक्तृरूपेण उपस्थितः आसीत्। द्वादशदिनात्मके प्रशिक्षणवर्गे क्षेत्रस्य २७ विविधस्थानेभ्यः ३२ जनाः छात्ररुपेण उपस्थिताः आसन्। आवासीयवर्गार्थं प्रबन्धगणे १८ कार्यकर्तारः तथा ६ शिक्षकाः च उपस्थिताः आसन्। दक्षिणगोवा-जनपद-मन्त्रिणी प्रजिता देवारीमहोदया वर्गाधिकारिणी तथा कोङ्कणप्रान्तस्य प्रचारप्रमुखः महेश परळकरमहोदयः कार्यवाहः इति दायित्वं निरूढवन्तौ। रायगड-विभाग-संयोजकः विक्रान्तः जोशीमहोदयः शिक्षणप्रमुखः आसीत्। प्रान्त-महाविद्यालयछात्रप्रमुखः प्रणव गोगटेमहोदयः व्यवस्थाप्रमुखः आसीत्। बौद्धिकसत्रेषु अन्यैः सह अ. भा. प्रचारप्रमुखः शिरीष भेडसगावकरमहोदयः अ.भा. सम्पर्कप्रमुखः श्रीषदेवपुजारीवर्यः तथा गोवाविभागसंयोजकः प्रसाद-उमर्येमहोदयः च वक्तृरुपेण उद्बोधितवन्तः। संस्कृतमय-वायुमण्डले भाषाशिक्षणेन सह शिबिरचालकप्रशिक्षणं छात्रैः स्वीकृतम्। समापनकार्यक्रमे बाबुसिंग राजपूतमहोदयः ( वर्गस्थानव्यवस्थापकः) प्रकाश मोरेमहोदयः च अतिथिरूपेण उपस्थितौ आस्ताम्। कोङ्कणप्रान्ताध्यक्षा कल्पना आठल्येवर्या आध्यक्षभाषणं कृतवती। दीक्षान्तसमारोहे अ. भा. प्रचारप्रमुखः शिरीष भेडसगावकरमहोदयः पाथेयभाषणं कृत्वा छात्रान् प्रेरितवान्।*.


  • Post By : Samskrita Barati Konkan
  • |
  • 30-05-2024
  • |