Top
संस्कृतभारती - कोङ्कणम्
Latest Media & News
रत्नागिरीनगरे सम्भाषणशिबिरं सम्पन्नम्

शिबिरवृत्तम् ।
(१८/०६/२०२४ – २७/०६/२०२४)
द.रत्नागिरी शिक्षिका – सौ. नेत्रा मोडक

रत्नागिरीनगरे वैद्यमङ्‌गलकार्यालयः टिळक आळी रत्नागिरी इत्यत्र आयोजितस्य संस्कृतसम्भाषणशिबिरस्य समारोपकार्यक्रमः २७ जून दिनाङ्‌के शिबिरस्थाने एव सम्पन्नः। कार्यक्रमस्य सूत्रसञ्चालनं तृप्तिः करमरकरः भगिन्या कृतम् ।

मुख्यातिथिरूपेण श्री. दिनेश जैन महोदयः उपस्थितः आसीत् । (रत्नागिरीस्थः प्रसिद्धः सुवर्णकारः ।) “बहवः जैन धर्मग्रन्थाः संस्कृतेन एव लिखिताः सन्ति अतः तेषाम् अध्ययनार्थं संस्कृतभाषायाः अभ्यासः आवश्यकः।” इति महोदयेन उक्तम् । तर्हि “जैनबान्धवानां कृते सम्भाषणशिबिरस्य आयोजनं कर्तु संस्कृतभारती सिद्‌धा अस्ति” इति शिबिरशक्षिका सनिश्चयम् उक्तवती ।

अस्माकं दक्षिण-रत्नागिरी-जनपदस्य अध्यक्षः डॉ. दिनकर-मराठे-महोदयः मुख्यवक्तृरूपेण मञ्चम् अलङ्‌कृतवान् । ‘परोपकारः पुण्याय’ इति भावनया वयं सर्वेऽपि संस्कृतप्रचारार्थं कार्यं कुर्मः इत्येवं प्रेरितवान् ।

ततः पूर्व भारतमातुः पूजनेन कार्यक्रमस्य आरम्भः जातः । सौ. शीतल-करमरकर-भगिनी अतिथीनां परिचयं कारितवती । शिबिरस्य वृत्तकथनं कृतवती शिबिरशिक्षिका सौ. नेत्रा-मोडकः ।

अनन्तरं शिबिरछात्राः उत्साहेन आत्मविश्वासपूर्ण स्वप्रतिभाप्रदर्शनं कृतवन्तः। तेषां परिजनाः अपि आनन्देन आस्वादितवन्तः। आहत्य चत्वारिंशदधिकाः जनाः उपस्थिताः आसन् । सर्वे उपस्थिताः भारतमातरं प्रणम्य समाजनिधिसमर्पणं कृतवन्तः। आहत्य ₹७३१८/- समर्पितानि । एषः निधिः संस्कृतभारत्याः वित्तकोषे जालपुटमाध्यमेन पूरयित्वा छात्रेभ्यः तस्य प्रप्तिपत्रं प्रेषितम् ।

कार्यक्रमस्य अन्तिमे सोपाने सहशिक्षिका कु. सि‌द्धी-मोडकः कृतज्ञतार्पणं कृतवती। शान्तिमन्त्रेण कार्यक्रमस्य समाप्तिः अभवत् ।.


  • Post By : Samskrita Barati Konkan-Akshaya Bhagawat
  • |
  • 03-07-2024
  • |