संस्कृतभारती कोङ्कणप्रान्तः
बालकेन्द्रप्रशिक्षणम् २०२५
कोङ्कणप्रान्तस्य कल्याणजनपदे डोम्बिवलीनगरे मे मासस्य १० दिनाङ्कतः १२ दिनाङ्कपर्यन्तं बालकेन्द्रप्रशिक्षणं सम्पन्नम्। आहत्य ३६ शिक्षार्थिनः भागं स्वीकृतवन्तः। प्रान्तस्य भिन्नभिन्नजनपदात् जनाः आगतवन्तः।
बोरिवली जनपदस्य शिक्षणप्रमुखा मान्या शुभाङ्गी जोशी महोदया वर्गस्य वर्गाधिकारिरुपेण दायित्वं स्वीकृतवती। वर्गस्य कार्यवाहिका आसीत् दक्षिण-रत्नागिरी जनपदस्य संयोजिका सौ. अक्षया भागवत महोदया। व्यवस्थाप्रमुखरुपेण दायित्वं निरूढवान् कल्याणजनपदस्य सह-संयोजकः श्री. महेश जोशी महोदयः। शिक्षणप्रमुखा आसीत् प्रान्तस्य बालकेन्द्रप्रमुखा मान्या वैदेही आमशेकर महोदया। नियन्त्रिकारुपेण कार्यं कृतवती अम्बरनाथ जनपदस्य सह-संयोजिका सौ. हिमांगी भावे भगिनी।
उद्घाटनसत्रे प्रान्तस्य शिक्षणप्रमुखः श्री. आशिषः आठवले महोदयः उपस्थितः आसीत्। बालकेन्द्रस्य शिक्षणविषये मोहदयेन उद्बोधनं कृतम्।
दिनद्वयात्मके अस्मिन् वर्गे प्रशिक्षणार्थिनां कृते बालकेन्द्रनिमित्तम् भिन्नभिन्नसत्राणाम् आयोजनं कृतम्।
वर्गस्य समारोपे मुख्यवक्तृरूपेण उपस्थिता आसीत् प्रान्तस्य सहमन्त्रिणी सौ. श्यामला भट महोदया। मुख्यातिथिः रुपेण उपस्थितः आसीत् राष्ट्रिय-स्वयंसेवक-सङ्घस्य प्रचारकः मान्यः कृष्णः गरोटे महोदयः। प्रशिक्षणं स्वीकृत्य स्वस्थानं गत्वा कार्यस्य प्रारम्भः कथं भवेत् इत्यस्मिन् विषये मार्गदर्शनं महोदयेन कृतम्।
वर्गे आहत्य ८ शिक्षकाः १० प्रबन्धकाः आसन्।
प्रान्तपक्षतः प्रान्तमन्त्री श्री. नीरज दाण्डेकर महोदयः उपस्थितः आसीत्। वर्गे अभ्यागतरूपेण आगतः आसीत् अखिलभारतीय-गीताशिक्षणकेन्द्रप्रमुखः श्री. शिरीषजी भेडसगांवकर महोदयः।.
- Post By : Samskrita Barati Konkan
- |
- 14-05-2025
- |


























.jpeg)











.jpeg)























