Top
संस्कृतभारती - कोङ्कणम्
Latest Media & News
कोङ्कणप्रान्ते प्रबोधनवर्गः।

नोव्हेंबरमासस्य 16 दिनाङ्कतः 22 दिनाङ्कपर्यन्तं निळजे ग्रामः डोंबिवली इत्यत्र प्रबोधनवर्गः सम्पन्नः। वर्गे प्रान्तमन्त्री मान्या श्यामला भटमहोदया वर्गाधिकारीरूपेण तथा श्री. जगन्नाथ आर्यमहोदयः कार्यवाहरूपेण दायित्त्वं निरूढवन्तौ। भोजननिवासादयः व्यवस्थाः किशोर उधोजीमहोदयेन व्यवस्थाप्रमुखरूपेण उपकल्पिताः। प्रान्तस्य सङ्घटनमन्त्री मान्यः विठ्ठल भटमहोदयः वर्गे पूर्णसमयं स्थित्वा व्यवस्थागणस्य मार्गदर्शनं कृतवान्।प्रबोधनवर्गस्य शिक्षणप्रमुखत्वेन विक्रान्तजोशीमहोदयः कार्यं निरूढवान्। प्रान्तस्य 12 जनपदेभ्यः उपसप्ततिः शिक्षार्थिनः उपस्थिताः आसन्। तत्र विशेषः इत्युक्ते 38 शिक्षार्थिनः केन्द्रिय-संस्कृत-विश्वविद्यालयतः आगतवन्तः। डोम्बीवलीतः आगतः मान्यः श्री. माधव नारायण घुलेमहोदयः मुख्यातिथिरूपेण वर्गस्य उद्घाटनं कृतवान्। वर्गस्थानस्य सर्वोदय-विद्यालयस्य अध्यक्षः कार्यकारी संचालकः च समारम्भे उपस्थाय मनोगतं प्रकटितवन्तौ। सप्तदिनात्मके अस्मिन् प्रबोधनवर्गे 15 शिक्षकाः शिक्षार्थिनां मार्गदर्शनं कृतवन्तः। संस्कृतसम्भाषणमाध्यमेन एव विविधानि व्याकरणसत्राणि क्रीडासत्राणि कथारचनासत्राणि च जातानि।"किमर्थं संस्कृतं" "सम्भाषणस्य महत्त्वं" "शिक्षणद्वारा सङ्घटनं" "करणीयानि कार्याणि" इत्यादिविषयेषु मान्याः नीरज दांडेकर कुमार भट संदीप जोशी आशीष आठवले सचीन कठाळे छात्रान् उद्बोधितवन्तः। प्रान्तसम्पर्कप्रमुखः मान्यः हरेश आमडेकरमहोदयः अन्तर्जाले संस्कृतभारत्याः जालपुटस्य परिचयं कारितवान्। कार्ययोजनादृष्ट्या बालकेन्द्रम् देववाणीपरीक्षा श्लोकोच्चारणकेन्द्रम् इत्यादीनां संस्कृतभारत्याः उपक्रमाणां विषये मान्या श्यामलाभगिनी स्नेहलाभगिनी अक्षयाभगिनी नारायणमहोदयः च मार्गदर्शनं कृतवन्तः। शिक्षार्थिनः अनौपचारिकसत्रेषु गीतगायनं लघुनाटिकाः इत्येतेषां सादरीकरणं कृतवन्तः। उपान्त्यदिने सर्वे शिक्षार्थिनः शिक्षकाः प्रबन्धकाः मिलित्वा निळजेग्रामे शोभायात्रामाध्यमेन संस्कृतप्रसारकार्यं कृतवन्तः। समारोपसमारोहे वैद्यः मान्यः विवेक वसंत मोडकमहोदयः अतिथिरूपेण आगत्य छात्रेभ्यः संस्कृतकार्याय प्रेरणां दत्तवान्। अखिलभारतीयसहप्रशिक्षणप्रमुखः मान्यः सचीन कठाळेमहोदयः पाथेयभाषणे सार्थसंस्कृतशब्दानां महत्त्वं बोधयित्वा समाजस्य अपेक्षाः पूरयितुं यथाशक्ति न यथापेक्षं कार्यं करणीयम् इति प्रतिपादितवान्।.


  • Post By : Samskrita Barati Konkan
  • |
  • 23-11-2023
  • |