कालावधिः – २५/१०/२०२३ तः ०४/११/२०२३
शिबिरस्थानानि –
१) भारतरत्न डॉ. पांडुरंग वामन काणे संस्कृत-अध्ययन-केन्द्रम्
२) श्री गोविन्द कृष्ण रानडे संस्कृतपाठशाला
३) युथ ॲक्टिव्हिटी सेंटर साळवी स्टॉप
शिबिरशिक्षकाः - अक्षया भागवत तेजश्री जोशी कल्पजा जोगळेकर
रत्नागिरीजनपदे प्रवृत्तानां त्रयाणां सम्भाषणशिबिराणां सामूहिकसमापनसमारम्भः ०४/११/२०२३ दिनाङ्के भारतरत्न डॉ. पांडुरंग वामन काणे संस्कृत-अध्ययन-केन्द्रम् इत्यत्र सम्पन्नः । राष्ट्रसेविकासमित्याः कोङ्कणप्रान्तस्य सहकार्यवहिका मा. सौ. उमा-दाण्डेकरमहोदया मुख्यातिथिरूपेण उपस्थिता आसीत् । भारतरत्न डॉ. पांडुरंग वामन काणे संस्कृत-अध्ययन-केन्द्रस्य सहाय्यकप्राध्यापकः श्री. अविनाश-चव्हाण-महोदयः अध्यक्षरूपेण उपस्थितः आसीत् । समापनकार्यक्रमावसरे शिबिरच्छात्राः विविधकार्यक्रमाणां प्रस्तुतिं कृतवन्तः । दक्षिण-रत्नागिरी-जनपदसंयोजिका सौ. अक्षया-भागवत शिबिराणाम् इतिवृत्तम् उपस्थापितवती । कार्यक्रमस्य सूत्रनिवेदनं शिबिरशिक्षिका मीरा-काळे कृतवती । सर्वेभ्यः शिबिरेभ्यः आहत्य २२ छात्राः भागं गृहीतवन्तः । भारतमातुः पूजनावसरे ₹ ४४१७/- रुप्यकाणि समाजनिधिरूपेण सङ्गृहीतानि । पञ्चशतं रूप्यकाणां पुस्तकविक्रयणम् अभवत् । शिबिरकाले कोङ्कणप्रान्तस्य उपाध्यक्षा डा. कल्पना-आठल्ये-महोदया उपस्थिता आसीत् । समारोपकार्यक्रमावसरे कोङ्कणप्रान्तस्य प्रशिक्षणप्रमुखः आशिष-आठवले-महोदयः उपस्थितः आसीत् ।.
- Post By : Samskrita Barati Konkan
- |
- 06-11-2023
- |


























.jpeg)











.jpeg)























