Top
संस्कृतभारती - कोङ्कणम्
Latest Media & News
शुद्धिकौमुदीवर्गस्य समापनम्

॥शुद्धिकौमुदीवर्गस्य समापनम्॥
दिनाङ्कः- ३ फेब्रुवारी २०२५।

गतवर्षे फेब्रुवारी मासस्य अष्टाविंशदिनाङ्कतः प्रचलतः शुद्धिकौमुदी इति आभासीवर्गस्य अद्य फेब्रुवारीमासस्य तृतीयदिनाङ्के समापनम् अभवत्। ठाणेजनपदद्वारा आयोजिते अस्मिन् वर्गे ८-९ कार्यकर्तारः निरंतरं उपस्थित्य पठितवन्तः। मा. सन्दिपजोशीमहोदयः एतं वर्गं चालितवान्। महोदयस्य मार्गदर्शनात् शुद्धिकौमुदीपुस्तके समागताः सर्वे विषयाः सम्यकतया ग्रहिताः।
समापनकार्यक्रमे सन्दिपजोशीमहोदयः शुद्धिकौमुदीपुस्तकस्य निरन्तरम् उपयोगार्थं ततः अकारादिक्रमस्य सम्यक् उपयोगार्थं बोधितवान्। तथा च ततः पठिताः विषयाः निरन्तरं संभाषणशुद्ध्यर्थं उपयोजनीयाः इति च बोधितवान्।एषः वर्गः निरंन्तरं भवतु इत्यर्थं विशेषतः प्रयत्नरतस्य महेशमहोदयस्य अपि महोदयेन विशेषोल्लेखः कृतः। कोङ्कणप्रान्तमन्त्रिः नीरजदाण्डेकरमहोदयः सर्वेषां पठितॄणाम् अभिनन्दनं कृत्वा यत् ज्ञानम् अस्मिन् आभासिवर्गे ग्रहितं तदाधारेण स्वक्षेत्रे प्रत्यक्षवर्गाणां चालनाय सर्वान् प्रेरितवान्। कार्यक्रमस्य संचालनं कोङ्कणप्रान्तप्रचारप्रमुखेण मा. महेशमहोदयेन कृतम् कार्तज्ञप्रदर्शनं च मा. स्वातीवाघभगिनी कृतवती। उपस्थितेभ्यः छात्रेभ्यः काश्चन् स्वानुभवं कथितवत्यः। इतः परम् अपि एतादृशाणां वर्गाणाम् आयोजनं क्रियते इति निश्चितं कृत्वा सर्वे शान्तिमन्त्रात् परं निरोपितवन्तः।.


  • Post By : Samskrita Barati Konkan
  • |
  • 11-02-2025
  • |