Top
संस्कृतभारती - कोङ्कणम्
Latest Media & News
डोंबिवली नगरे गणेश्मन्दिरसंस्थया एवं च संस्कृतभारत्या मिलित्वा संस्कृत - सम्भाषण - शिबिरस्य आयोजनं कृतम्।

कल्याण जनपदस्य डोंबिवली नगरे गणेश्मन्दिरसंस्थया एवं च संस्कृतभारत्या मिलित्वा संस्कृत - सम्भाषण - शिबिरस्य आयोजनं कृतम्।
एतत् शिबिरं डोंबिवली नगरस्य गणपति मन्दिरे प्राचलत्। शिबिरम् अप्रिल मासस्य १५ दिनाङ्कतः २४ पर्यन्तम् प्रचलितम्। आहत्य ३० छात्राः नियमितरूपेण भागं स्वीकृतवन्तः। समरोपे मुख्य वक्ता रूपेण प्रान्तस्य देववाणी प्रमुखः श्री. नारायणन् वासुदेवन् महोदयः उपस्थितः आसीत्। महोदयेन अग्रे संस्कृतस्य पठनार्थं बहु उत्तमरीत्या उद्बोधनं कृतम्। तथा एव मुख्यातिथिः रूपेण मन्दिरस्य अध्यक्षः श्री. श्रीपाद कुलकर्णी महोदयः उपस्थितः आसीत्। महोदयेन संस्कृतस्य विषये स्वमनोगतं प्रकटीकृतम्। अन्ये उपस्थिताः आसन् क्षेत्रस्य सङ्घटनमन्त्री श्री. विठ्ठल भट महोदयः प्रान्तमन्त्रिणी सौ. श्यामला भट महोदया प्रान्तकार्यालयप्रमुखा सौ. पद्मिनी भगिनी च। अन्य कार्यकर्तृषु उपस्थिताः आसन् जनपदस्य संयोजकः श्री. रवींद्र खाडिलकर महोदयः पुस्तक-विभागप्रमुखा सौ. निर्मला भगिनी एवञ्च रामनगरस्य संयोजकः श्री. किशोर राव महोदयः च।
अनुवर्तनरूपेण साप्ताहिकवर्गः निश्चितः अस्ति।.


  • Post By : Samskrita Barati Konkan
  • |
  • 24-04-2024
  • |