कोङ्कणप्रान्ते प्रबोधनवर्गः सम्पन्नः ।
(प्रबोधनवर्गः - मे २०२६ - वृत्तम् ।)
संस्कृतभारत्याः कोङ्कणप्रान्तस्य प्रबोधनवर्गः अस्मिन् वर्षे मेमासस्य चतुर्थदिनाङ्कतः दशमदिनाङ्कपर्यन्तम् 'अभिनव ज्ञान मंदिर प्रशाला कर्जत' इत्यत्र सुसम्पन्नः ।
वर्गस्य पालकरूपेण कोङ्कणप्रान्तसहमन्त्री मान्यः महेश-परळकर-महोदयः तथा च प्रान्तगीताशिक्षणकेन्द्रप्रमुखा मान्या नेहा-दाण्डेकर-महोदया पूर्णसमयं वर्गे उपस्थितवन्तौ । वर्गस्य सञ्चालनार्थं सञ्चालनसमितिः आसीत् तस्यां वर्गाधिकारिरूपेण मान्या नम्रता-मणेर-महोदया कार्यवाहरूपेण प्रान्तसहमन्त्री आशिष-आठवले-महोदयः शिक्षणप्रमुखरूपेण स्नेहल-पाडळकर-महोदया बौद्धिकप्रमुखरूपेण विद्या-आडिवरेकर-महोदया व्यवस्थाप्रमुखरूपेण महेश-जोशी-महोदयः तथा च नियन्त्रकरूपेण अदिती-पटवर्धन-महोदया इत्येते कार्यं कृतवन्तः ।
वर्गे १८ जनपदेभ्यः ६० छात्राः सम्मिलिताः आसन् । तेषु ४८ महिलाः १२ पुरुषाः आसन् । शिक्षकगणे १० शिक्षकाः तथा च व्यवस्थार्थं १० कार्यकर्तारः आसन् ।
अस्मिन् वर्गे विभक्तिः लकाराः अव्ययानि विशेषण-विशेष्यभावः चत्वारि कौशलानि विभज्यप्रयोगः सरलसंस्कृतम् इत्यादीनां विषयाणां पाठनम् अभवत् । तथा च किमर्थं संस्कृतम् संस्कृतभारती सम्भाषणस्य महत्त्वं पञ्चपरिवर्तनानि डा. हेडगेवारमहोदयस्य जीवनी करणीयानि कार्याणि इत्येतेषां विषयाणां बौद्धिकसत्राणि अभवन् । अखिलभारतीयगीताकेन्द्रप्रमुखः मान्यः शिरीष-भेडसगावकरमहोदयः अखिलभारतीयश्लोकपाठनकेन्द्रप्रमुखः मान्यः चिन्मय-आमशेकरमहोदयः च वर्गसमये प्रवासं कृतवन्तौ ।
वर्गस्य उद्घाटनकार्यक्रमे अभ्यागतरूपेण अभिनव-ज्ञान-मन्दिर-प्रशालायाः कार्यवाहः मान्यः नन्दकुमार-मणेर-महोदयः निवृत्ता संस्कृतशिक्षिका मृदुला-गडनीस-महोदया तथा च संस्कृतभारत्याः कोङ्कणप्रान्तमन्त्री श्यामला-भट-महोदया इत्येते मान्यवराः उपस्थिताः आसन् ।
वर्गस्य समापनसमारोहे प्रसिद्धः कविः तथा अनुवादकः मान्यः राजेन्द्र-दातार-महोदयः मुख्यातिथिरूपेण उपस्थितः आसीत् । सत्रेऽस्मिन् प्रान्ताध्यक्षा मान्या डा. कल्पना-आठल्ये-महोदया मुख्य वक्तृरूपेण उद्बोधनं कृतवती ।
इति वृत्तम् ।.
- Post By : Samskrita Barati Konkan
- |
- 18-05-2026
- |




























.jpeg)











.jpeg)























