३०-जून-२४ दिनाङ्के कोङ्कणप्रान्तस्य सम्पर्क-कार्यशाला ठाणेनगरे एकस्य सम्पृक्तस्य एव कार्यालये आयोजिता। आहत्य जनपदसम्पर्कप्रमुखाः संयोजकाः तथा प्रान्तक्षेत्रयोः च २१ जनाः उपस्थिताः। उपस्थितेषु एकः प्रान्तसम्पर्कगणसदस्यः षट् जनपदसंयोजकाः तथा सप्त जनपदसम्पर्कप्रमुखाः च। प्रान्तप्रचारप्रमुखेण श्री. महेशपरळकरेण सह उपस्थितेषु ४ जनाः दीपप्रज्ज्वालनेन उद्घाटनं कृतवन्तः। प्रास्ताविकेन आरब्धायां कार्यशालायां प्रचारकार्यस्य परिचयं श्री. महेशपरळकरः कारितवान्। प्रचार-सम्पर्ककार्ययोः परस्परसम्बन्धः तथा सूक्ष्मभेदः च तेन ज्ञापितः। तदनन्तरं सम्पर्कविभागस्य आवश्यकता सम्पर्ककार्यं सम्पर्कसप्ताहस्य उपक्रमः अधुनापर्यन्तं कृतं सम्पर्ककार्यं च एतेषां विषयाणां कृते प्रान्तसम्पर्कप्रमुखेण श्री. हरेश-आमडेकरेण चर्चा कारिता। प्रान्तमन्त्रिणा श्री. नीरजदाण्डेकरेण सम्पर्कविभागद्वारा विमर्शविषये करणीयानि कार्याणि तथा संस्कृतभारत्याः परिचयः च एतद्विषये मार्गदर्शनं कृतम् । पाथेयभाषणे पश्चिमक्षेत्राध्यक्षेण मान्येन चन्द्रशेखरवझेमहोदयेन सम्पर्कदायित्वेन आत्मोन्नतिः कर्तुम् एकः उत्तमः अवसरः इति विचिन्त्य कार्यं कथं करणीयम् एतस्य विषये कृतेन पाथेयभाषणेन आत्मचिन्तनार्थम् उपस्थिताः प्रेरिताः। सम्पर्कोपक्रमे नाम संस्थायाः कार्यस्य एकस्मिन् अतिमहत्वपूर्णाङ्गे क्षेत्रसङ्घटनमन्त्री श्री. विठ्ठलभटः तथा प्रान्तसहमन्त्री श्रीमती श्यामलाभट् च उपस्थितौ।.
- Post By : Samskrita Barati Konkan
- |
- 01-07-2024
- |


























.jpeg)











.jpeg)























