Top
संस्कृतभारती - कोङ्कणम्
Latest Media & News
मुम्बादेवी इति नूतने जनपदे संस्कृतदिनाचरणम्।

संस्कृतभारती कोङ्कणप्रान्ते मुम्बादेवी जनपद द्वारा विश्वसंस्कृतदिनाचरणस्य कार्यक्रमः अगस्त मासस्य २९ तमे दिनाङ्के सायं ७ वादने आयोजितः। दीपप्रज्ज्वालनेन कार्यक्रमस्य आरम्भः अभवत्। अनन्तरं रक्षासूत्रबन्धनेन सह वयं संस्कृतस्य रक्षणं कर्तुं प्रतिबद्धाः इति प्रतिज्ञां सर्वे कृतवन्तः। तत्रत्याः देववाणी वर्गस्य बालकाः स्वप्रतिभां सादरं कृतवन्तः। तदनन्तरं मुम्बादेवी जनपदस्य अध्यक्षा वैद्या अनुजा पुरन्दरे महोदया बालकानां प्रोत्साहनवर्धनार्थं तेभ्यः उपायनानि दत्तवती। मुम्बई महानगर विभागस्य संयोजकः सुमितमहोदयः संस्कृतदिनाचरणस्य संकृतस्य च महत्त्वं संस्कृत शिक्षणे अस्माकं लक्ष्यं किं भवेत् संस्कृतसप्ताहे सर्वे कथं संस्कृत प्रचारं कर्तुं शक्नुवन्ति प्रत्येकेन स्वस्य दायित्वं कथं निर्वहनीयम् एतान् सर्वान् विषयान् उत्तमरित्या बोधितवान्। अल्पाहारानन्तरं गीता सोपानस्य पाठनं सुमितमहोदयेन कृतम्। शान्तिमन्त्रेण भगवतः कृपया च कार्यक्रमः उत्तमतया सम्पन्नः।.


  • Post By : Samskrita Barati Konkan
  • |
  • 19-09-2023
  • |