कोङ्कणप्रान्तेन १८ तः २४ मे २०२४ पर्यन्तं लोढा वर्ल्ड स्कूल तळोजा इत्यत्र प्रबोधनवर्गः आयोजितः आसीत्। वर्गस्य उद्घाटनसत्रे महाराष्ट्र-टाईम्स तः ज्येष्ठवित्तपत्रकारः वैभववझेवर्यः तथा चन्द्रशेखर-पाटकर-ट्रस्ट तः विश्वस्तः गुरूदत्ततिरोडकरवर्यः अतिथिरुपेण उपस्थितः आस्ताम्। संस्थापक्षतः अखिल-भारतीय-स्तोत्रपाठनकेन्द्रप्रमुखः चिन्मय-आमशेकरवर्यः वक्तृरूपेण उपस्थितः आसीत्। प्रान्तस्य १९ जनपदेषु विविधस्थानेषु च सप्तभ्यः दिनेभ्यः प्रबोधनवर्गे ८२ जनाः छात्ररुपेण उपस्थिताः आसन्। आवासीयवर्गार्थं १८ कार्यकर्तारः प्रबन्धगणे तथा १० शिक्षकाः च उपस्थिताः आसन्। उत्तरगोवा-जनपद-अध्यक्षा वरदा फडके महोदया वर्गाधिकारिणी तथा उत्तरगोवा-जनपद-सहसंयोजिका मनीषा नायक दलाल महोदया कार्यवाहिका च इति दायित्वं निरूढवत्यौ। अम्बरनाथ-जनपद-संयोजिका ख्यातीदेशपाण्डेवर्या शिक्षणप्रमुखा आसीत्। वसई-जनपद-संयोजकः किशोर-उधोजी व्यवस्थाप्रमुखः आसीत्। बौद्धिकसत्रेषु अन्यैः सह चिन्मय-आमशेकरवर्यः अ.भा. सम्पर्कप्रमुखः श्रीषदेवपुजारीवर्यः तथा गोवाविभागसंयोजकः प्रसाद-उमर्येमहोदयः च वक्तृरुपेण उद्बोधितवन्तः। संस्कृतस्य वातावरणे कक्ष्याशिक्षणेन सह प्रत्यक्ष-जीवनं कथं भवेत् एतस्य अनुभवः आवासीयवर्गे छात्राभिः स्वीकृतः। समापनकार्यक्रमे ओमकारशैक्षिकन्यासस्य दर्शनासामन्तवर्या अतिथिरूपेण उपस्थिता आसीत्। प्रान्तमन्त्री नीरजदाण्डेकरवर्यः पाथेयभाषणेन छात्रेभ्यः मार्गदर्शनं कृतवान्।.
- Post By : Samskrita Barati Konkan
- |
- 27-05-2024
- |


























.jpeg)











.jpeg)























