Latest Media & News
रत्नागिरीनगरे सम्भाषणशिबिरद्वयस्य आरम्भः | २२/०६/२०२४
दक्षिणरत्नागिरीजनपदे सम्भाषणशिबिरद्वयस्य उत्साहेन आरम्भः अभवत् | रत्नागिरीनगरे वैद्य-मङ्गल-कार्यालये जून मासस्य अष्टादश दिनाङ्कतः शिबिरस्य आरम्भः अभवत् | तत्र उद्घाटनकार्यक्रमे ज्येष्ठ-संस्कृत-शिक्षिका तथा च दक्षिण-रत्नागिरी-जनपदस्य समितिगणसदस्या मान्या सौ. प्रतिभा-प्रभुदेसाईमहोदया उपस्थिता आसीत् | तथा च रत्नागिरीनगरे केलकर-वसतिगृहे जून मासस्य एकविंशतिदिनाङ्कतः शिबिरस्य आरम्भः अभवत् | तत्र उद्घाटनकार्यक्रमे संस्कृत-प्राध्यापकः श्री. जयन्त-अभ्यंकर-महोदयः उपस्थितः आसीत् | सौ. नेत्रा मोडक कु. सिद्धिः मोडक कु. मीरा काळे तथा च कु. कल्पजा जोगळेकर एताः एतद् शिबिरद्वयं चालयन्ति |.
- Post By : Samskrita Barati Konkan-Akshaya Bhagawat
- |
- 22-06-2024
- |


























.jpeg)











.jpeg)























