Top
संस्कृतभारती - कोङ्कणम्
Latest Media & News
संस्कृतसम्भाषणशिबिरम् समारोपसमारम्भः

संस्कृतसम्भाषणशिबिरम्
समारोपसमारम्भः

ठाणेजनपदस्य नौपाडा नगरे ब्राह्मण- सेवा-संघे प्रवृत्तस्य दशदिनसंस्कृतसम्भाषणशिबिरस्य समारोपसमारम्भः ऑक्टोबरमासस्य १० दिनाङ्के शिबिरस्थाने एव सम्पन्नः जात:। तत्र प्रसिद्ध: नाट्य कलाकार: श्री. विघ्नेश जोशीवर्यः मुख्यः अभ्यागतः आसीत्। विघ्नेश जोशी महोदय: संस्कृत शब्दउच्चारणम् भाषा- कौशल्यविकासार्थं कथं आवश्यकम् एतद् विषये सम्यक् उक्तवान्।
संस्कृतभारती ठाणे जनपद सहसंयोजिका दिप्ती पुजारी भगिनी
मुख्यवक्त्री आसीत्। सा संस्कृतस्य निरंतर अभ्यासस्य विषये छात्रै: सह सम्यकतया संवादम् साधितवती। पत्राचार द्वारा संस्कृतम् प्रबोधन वर्ग: साप्ताहिक वर्ग: विषये सा छात्राणाम् उत्तमं उद्बोधनं कृतवती।

शिबिरच्छात्रैः विविधप्रदर्शनानि प्रस्तुतानि। शिबिरशिक्षिका सौ. रश्मी भावे शिबिरस्य इतिवृत्तम् उपस्थापितवती।

सम्पूर्णं कार्यक्रमं शिबिरच्छात्राः एव निरूढवन्तः।
समारोपकार्यक्रमावसरे कोकणप्रान्त-प्रचारप्रमुख: तथा ठाणे-जनपद संयोजकः श्रीमान् महेश परळकर महोदय: कोकणप्रान्त संपर्कप्रमुख: आमडेकर महोदय: ठाणे जनपद कोषप्रमुखा ललिता भगिनी कार्यकर्त्रीरूपेण वरदा भगिनी अकोलकर भगिनी च उपस्थिताः।
कार्यक्रमस्य उपस्थिती --- 25

सर्वेषां नैके धन्यवादा:
?????.


  • Post By : Samskrita Barati Konkan-Mahesh Vallabhrao Paralkar
  • |
  • 11-10-2023
  • |