Top
संस्कृतभारती - कोङ्कणम्
Latest Media & News
THANE JANPAD - BAALKENDRANAAM VAARSHIKOTSAVA 2022 - 23

ठाणेजनपदे विविधेषु नगरेषु आहत्य ११ प्रत्यक्षकेन्द्राणि अस्मिन् वर्षे आरब्धानि। तत्र विविधानां केन्द्राणां वार्षिकोत्सवाः विभिन्नसमये विभिन्नस्थानेषु सम्पन्नाः।


पाचपाखाडीविभागे प्रचलितस्य बालकेन्द्रद्वयस्य नालन्दाविद्यालये सञ्चालितस्य बालकेन्द्रस्य च एकत्रितः वार्षिकोत्सवः २५ फेब्रुवरीदिनाङ्के नालन्दाविद्यालये सम्पन्नः। विद्यालस्यस्य प्रधानाध्यापिका मान्या नन्दिता खन्ना महोदया प्रमुखातिथिरूपेण बालान् बोधितवती। जनपदगीताकेन्द्रप्रमुखा अवन्तिकासराफदार जनपदशिक्षणप्रमुखा प्रज्ञाठक्कर च अवसरेSस्मिन् उपस्थिते आस्ताम्।
बालकेन्द्रशिक्षकाः प्रवीणः श्यामला शिरीष ललिता उत्तरा कीर्ति नीना च सोत्साहं सिद्धतां कृतवन्तः। विविधानि गीतानि संवादाः कथाः साभिनयगीतानि नृत्यम् इति विविधानां रञ्जनकार्यक्रमाणां प्रस्तुतिः छात्रैः सोत्साहं सधैर्यं कृता। बालद्वयेन एव सम्पूर्णस्य रञ्जनकार्यक्रमस्य सञ्चालनमपि कृतम्।
पालकेषु सहस्रबुद्धेभगिन्या संस्कृतेन स्वमनोगतं कार्तज्ञं च प्रकटितम्।
४५ बालकाः तेषां पालकाः अन्ये संस्कृतानुरागिणः च इति आहत्य उपसार्धैकशतं जनाः सम्मिलिताः आसन्।


पोखरणनगरे प्रचलितस्य बालकेन्द्रद्वयस्य एकत्रितः वार्षिकोत्सवः २६ फेब्रुवरीदिनाङ्के कॉसमॉससङ्कुलस्य सभागारे सम्पन्नः। आय्-ई-एस् विद्यालयस्य प्रधानाध्यापिका मान्या सुमेधा नवाथे महोदया अस्मिन् अवसरे उपस्थाय छात्राणां बोधनं कृतवती। अनमोलबालकेन्द्रस्य तथा कॉसमॉसबालकेन्द्रस्य छात्रैः उत्तमाः प्रस्तुतयः कृताः। बालकेन्द्रशिक्षिकाः शीला आकाङ्क्षा तेजला कार्यक्रमस्य आयोजनं कृतवत्यः। २५ छात्राः पालकाः तथा अन्ये संस्कृतप्रेमिणः इति आहत्य ७० जनाः कार्यक्रमे सहभागिनः आसन्।


नौपाडाविभागे स्वामीसमर्थमठे प्रचाल्यमानस्य बालकेन्द्रस्य वार्षिकोत्सवः २६ फेब्रुवरीदिनाङ्के वैश्य-उत्कर्ष-मण्डलस्य सभागारे सम्पन्नः। मठस्य कार्यवाहः श्रीमान् सुधीर-आम्बवणेमहोदयः अस्मिन् अवसरे उपस्थाय मार्गदर्शनं छात्राणां कौतुकं च कृतवान्। अस्मिन् कार्यक्रमे बालैः विविधाः प्रस्तुतयः कृत्वा जनाः रञ्जिताः। ३० बालाः तेषां पालकाः संस्कृतकार्यकर्तारः च इति आहत्य ८० जनाः कार्यक्रमे उपस्थिताः आसन्।


ठाणेनगरे श्रीरङ्गविद्यालये चतुर्णां बालकेन्द्राणाम् एकत्रितः वार्षिकोत्सवः शनिवासरे २५ मार्च दिनाङ्के महता उत्साहेन सम्पन्नः। खारकर-आळी-बालकेन्द्रम् नौपाडा-राममन्दिर-बालकेन्द्रम् श्रीरङ्ग-बालकेन्द्रं तथा लोढा बालकेन्द्रम् इत्येतेभ्यः स्थानेभ्यः बालाः सहभागम् अकुर्वन्। श्रीरङ्गविद्यालयस्य भूतपूर्वा सहसचिवा मान्या श्रीमती दीपा खोपकर महाभागा कार्यक्रमे मुख्यातिथिपदं भूषितवती। संस्कृततः संस्काराः इति विषये सा पालकान् बोधितवती। छात्राणां चित्राभिः प्रस्तुतिभिः विविधतायाम् एकता इति सन्देशः प्रसारितः। प्रान्तसम्पर्कप्रमुखः हरेश-आमडेकरमहोदयः तथा जनपदसंयोजकः महेशपरळकरमहोदयः अस्मिन्नवसरे उपस्थितौ आस्ताम्। ३५ बालकाः तथा तेषां पालकाः गीताकेन्द्रच्छात्राः संस्कृतानुरागिणः च इति उपाशीतिः जनाः कार्यक्रमस्य आनन्दानुभवं कृतवन्तः।


आगामिनि २६ एप्रिलदिने ऋतु इस्टेट बालकेन्द्रस्य वार्षिकोत्सवः सम्पन्नः भविष्यति।.


  • Post By : Samskrita Barati Konkan
  • |
  • 27-03-2023
  • |